कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 493, कुल 709 में से
संदर्भ में पढ़ें| ४५४ | कादम्बरी- | [ कथायाम्- |
|---|
यथा नापश्यं तम्, तथा तथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमानस्तरुळता-गाहनानि, चन्दनवीथिकाः, लतामण्डपान्¹, सरःकूलानि च² वीक्षमाणो निपुणमितस्ततो दत्तदृष्टिः सुचिरं व्यचरम्।
अथैकस्मिन् सरःसमीपवर्त्तिनि निरन्तरतया कुसुममय इव मधुकरमय इव परभृतमय इव मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम्, उत्सृष्टसकलव्यापारतया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव, निश्चलमपि स्ववृत्ताच्चलितम्³, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि
सुहृत्स्नेहकातरेण मित्रप्रीतिदैन्येन मनसा चित्तेन तत्तदशोभनम् उद्बन्धनादिकममङ्गलम् आशङ्कमानः सन्दिह्यमानः तरुलतानां वृक्षवल्लीनां गहनानि वनानि, चन्दनवीथिकाः चन्दनवृक्षपङ्क्तीः लतामण्डपान् सरसः सरोवरस्य कूलानि तीराणि च निपुणम् एकतानं यथा स्यात्तथा वीक्षमाणो विलोक्यमानः इतस्ततः समन्ताद् दत्तदृष्टिः दत्ताऽवलोकनोऽहं सुचिरं बहुसमयं व्यचरम् अभ्रमम्।
अथेति। अथ अनन्तरं सरःसमीपवर्त्तिनि सरोवरनिकटस्थायिनि निरन्तरतया कुसुमैः सान्द्रतया कारणेन कुसुममये प्रसूनै रचिते इव, मधुकरैर्निरन्तरतया मधुकरमय इव भ्रमरमय इव, परभृतैर्निरन्तरतया परभृतमय इव कोकिलै रचित इव, तथा मयूरैर्निरन्तरतया मयूरमय इव कलापिमय इव, अतिमनोहरे नितान्तरमणीये वसन्तस्य मधुसमयस्य जन्मभूमिभूते उत्पत्तिस्थानस्वरूपे एकस्मिन् लतागहने लतामयविपिने कृतावस्थानं विहितावस्थितिं तमहमुद्राक्षमृत्युत्तरेण सम्बन्धः।
इह प्रकृतविषये मयट्प्रत्ययविधानात् 'कुसुममय इव' इत्यादिश्चतसृणामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।
उत्सृष्टेति। उत्सृष्टाः स्वदधीनत्वात् परित्यक्ताः सकलाः समस्ता व्यापारा अङ्गप्रत्यङ्गचेष्टादयो येन तस्य भावस्तया कारणेन, लिखितं चित्रितमिव, उत्कीर्णं प्रस्तरादिकं निस्तक्ष्य रचितमिव, स्तम्भितमिव केनचित् जड़ीकृतमिव, उपरतभिव मृतमिव, प्रसुप्तं शयितमिव, तथा योगस्य चित्तवृत्तिनिरोधस्य यः समाधिः अन्तिमाङ्गं केवलमर्थनिर्भासनरूपं तत्र तिष्ठतीति तमिव।
इहापि 'लिखितमिव' इत्यारभ्य 'योगसमाधिस्थमिव' इत्यन्तं षण्णामेव क्रियोत्प्रेक्षाणां मिथो नैरपेक्ष्येण संसृष्टिः।
निश्चलमिति। निश्चलं स्थिरमपि स्ववृत्तात् निजकर्त्तव्यात् चलितमिति विरोधः, अप्रवृत्तमिति तत्परिहारः। एकाकिनमसहायमपि मन्मथेन कन्दर्पेण सहायकेन अधिष्ठितमधिष्ठितमिति विरोधः मन्मथस्य केवलं मनोवृत्तित्वात्तत्परिहारः। अनुरागेण रक्तिम्ना सह विद्यत इति सानुरागस्तमपि पाण्डुतां श्वेतताम् आवहन्तम् आदधानमिति विरोधः, सानुरागं प्रियतमायामासक्तमपीति तत्परिहारः। शून्यान्तःकरणमपि
त्यों त्यों सुहृत्स्नेहसे मेरा मन विह्वल हो गया, और उसके विषयमें नानाविध अमङ्गलकी आशङ्का होने लगी। वृक्षों और लताओंकी कुञ्जमें, चन्दनवृक्षकी पङ्क्तियोंमें लतामण्डपों और सरोवरके तीर पर देखते देखते, पुन्नानुपुङ्खरूपसे इतस्ततः भलीभाँति दृष्टिपात करता करता मैंने बहुत समय तक विचरण किया।
उसके बाद सरोवरके निकटवर्त्ती एक अत्यन्त मनोहर वसन्त-कालकी जन्मभूमिके समान लताकुञ्ज (लतामय वन) के मध्य में, जो सघन पुष्प होनेके कारण उस लतामय वनके पुष्पनिर्मितके समान, सघन भ्रमरोंके कारण भ्रमरनिर्मितके समान असंख्य कोकिलोंके रहनेके कारण कोकिल-निर्मितके समान एवं बहुतर मयूरोंके रहनेके कारण मयूरनिर्मितके समान प्रतीत होता था, मैंने उसे बैठे देखा। अङ्गप्रत्यङ्गके स्पन्दनादि समस्त व्यापारोंको भी परित्याग कर दिया था, इसलिए वह चित्रितके समान, क्षोदितके समान, स्तम्भित (स्तब्ध) के समान, मरे हुएके समान, निद्रितके समान, एवं योग-समाधिस्थितके समान हो, ऐसा दीखता था। निश्चल होनेपर भी वह अपने कर्त्तव्यसे चलायमान (परिभ्रष्ट) हो गया था, सहायशून्य होने पर भी कामदेव उसके साथ लगा
१. चन्दनवीथिकाल्लतामण्डपान् "मण्टपिकाः।
२. सरस्तीराणि च।
३. सुवृत्ताव।