कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 50, कुल 709 में से
संदर्भ में पढ़ेंप्रस्तावना
२९
परिणयानन्तरं स्वकीया मध्यापि च नायिका, किन्तु (उत्तरार्द्धे) तत्प्रसङ्गोऽप्यल्प एव। एतावेव नायिकानायकावालम्बनविभावौ। इन्दु-चन्दनान्योऽन्योक्त्यादय उद्दीपनविभावाः, परस्परचक्षुरादिक्रिया अनुभावाः, निर्वेदप्रभृतयो व्यभिचारिभावाः, रतिः स्थायी।
विप्रलम्भशृङ्गारो मुख्योऽङ्गी रसः। तत्र पूर्वार्धे, उत्तरार्धस्य कियदंशे च पूर्वरागाभिधः। उत्तरार्धशेषे तु करुणविप्रलम्भाभिधः। सम्भोगशृङ्गारोऽप्यस्ति रसः, किन्तु परिणयानन्तरं केवलं तस्य सूचनमेव। एषां साहित्यदर्पण ३ परिच्छेदगतलक्षणानि यथा—
'आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्।' 'उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये। आलम्बनस्य चेष्टाद्या देशकालादयस्तथा॥' 'उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भावं प्रकाशयन्। लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः॥' 'विशेषेणाभिमुख्येन चरणाद् व्यभिचारिणः। स्थायिन्युन्मग्ननिर्मग्नाः..........................।' 'रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम्।' 'यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ।' 'श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः। दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते॥' 'यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये। विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः॥'
अङ्गतया हास्यादयोऽन्येऽपि रसाः सन्ति।
आधिक्येनात्र माधुर्यं गुणाः। यथा—
'चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यते।
सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात्॥'
प्रसादगुणोऽप्यधिकस्थले। रीतिरत्र पाञ्चाली बाहुल्येन। यथा—
'...............................वर्णैः शेषैः पुनर्द्वयो।'
(वैदर्भीगौडीययोः परिगृहीतेभ्यो वर्णैः शेषैरित्यभिप्रायः)।
'समस्तपञ्चषपदो बन्धः पाञ्चालिका मता।'
अन्या अपि रीतयोऽल्पाधिकभावेन यथास्थानमुपलभ्यन्ते, किन्तु मुख्यं ताः। गद्यस्वरूपादिकं तु पूर्वमेव विवेचितं १, २ पृष्ठप्रस्तावनायाम्।
एतेषां यथासम्भवमेकत्र सौकर्याय श्लोकसंग्रहो यथा—
'चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो-
नेत्री कन्याऽन्यदीया मृदुलललिततनुर्मुग्धकादम्बरी च।
पाञ्चाली नाम रीतिर्विलसति बहुला विप्रलम्भो रसोऽङ्गी
माधुर्याख्यो गुणो वा कविमुकुटमणेः काव्ययोरन्त्यमेतत्'॥१
१. छन्द सोऽयं महामहोपाध्याय-हरिदाससिद्धान्तवागीशभट्टाचार्यटीकाभूमिकाया उद्धृतः।