भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 518, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 518

महाश्वेताया अभिसारवर्णना ७३ ] चन्द्रकला-विद्योतिनीसहिता । ४७६

स्फुटितकुमुदवन-बहुल-धूलि-धवलितोदरे निशा-नदी-पुलिनायमाने अन्तरिक्षे^१, चन्द्रोदयान- न्दनिर्भरे महोदधाविव रतिसमय इव उत्सवमय इव विलासमय^२ इव प्रीतिमय इव जीव- लोके, शशिमणिप्रणालनिर्मरे प्रमोद-मुखर-मयूर-स्वरम्ये प्रदोषसमये, गृहीत-विविध-कुसुम- ताम्बूलाङ्गराग-पटवास-चूर्णया तरलिकयानुगम्यमाना, तेनैव मूर्च्छानिहितेन किञ्चिदाश्यान- चन्दन-ललाटिका-लग्न-धूसरा-कुन्तलकेन चन्दनरसचर्चाङ्गरागवेशेनार्द्रेण^३, तथैव च तया कण्ठस्थितयाक्षमालया श्रवणशिखरचुम्बिन्या च पारिजातमञ्जर्या, पद्मरागरत्नरेमिनिम्मि-


स्फुटितेति । अन्तरिक्षे गगने, स्फुटितस्य विकसितस्य कुमुदवनस्य कैरवारण्यस्य बहलधूलिभिः प्रचुरपरागैः धवलितं श्वेतीकृतम् उदरम् अभ्यन्तरं यस्य तस्मिन् तथोक्ते सति, अत एव निशा रात्रिरेव नदी श्यामात्वसादृश्यादित्याशयः, तस्याः पुलिनायमाने तोयोत्थितसैकतमयदेशवदाचरति सति धूलीनां सैकतवच्छ्वेतत्वादित्याशयः ।

इह निरङ्गकेवलंरूपकत्रयश्चेतोपमयौरेकाश्रयानुप्रवेशरूपः सङ्करः, तथा पदार्थहेतुकं काव्यलिङ्गम्, इत्युभयोः पुनरङ्गाङ्गिभावसङ्करः ।

चन्द्रोदयेति । चन्द्रोदयेन शशाङ्कोद्गमेन आनन्दनिर्भरेः प्रहर्षातिशयो यत्र तथोक्ते, अतएव महोदधौ समुद्राविव स्फीत इति शेषः, जीवलोके प्राणिवर्गे, रतिसमय इव शृङ्गारमय इव, विलासमय इव लीलामय इव, प्रीतिमय इव स्नेहमय इव च सति ।

इह पदार्थहेतुकं काव्यलिङ्गं श्रौतोपमा चेत्यनयोरङ्गाङ्गिभावसङ्करः, 'रतिसमय' इत्याद्यप्रक्षतस्रो गुणोत्प्रेक्षाश्चेत्यासां परस्परं नैरपेक्ष्येण पुनः संसृष्टिः । तथा 'रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणौ तथा' इत्युक्तदिशा स्थायिभावस्य रसस्य चेह 'रतिरसै'त्यनेनाभिधानाद्दोषः समापतति स च 'औत्सुक्यमय इव' इति पाठेन परिहार्यः ।

शशीति । शशिमणयः चन्द्ररश्मिसम्पर्केण मलिलस्राविणश्चन्द्रकान्ता एव प्रणालाः सलिलनिः- सरणालाभानि तेषां निर्झरो वारिप्रवाहो यत्र तथोक्ते, तथा प्रमोदेन वर्षाभ्रमाजातानन्देन मुखराणां शब्दयामानानां मयूराणां बर्हिणां रवैः केकाशब्दैः रम्ये मनोहरे प्रदोषसमये रजनीमुखकाले जाते सति । इह निरङ्गं केवलरूपकम्, भ्रान्तिमांश्चापीति केचित् ।

गृहीतेति । गृहीतानि आतानि विविधानि नानारूपाणि ताम्बूतानि नागवल्लीदलानि अङ्गरागो लेपनं पटवासचूर्णानि पिष्टातकचूर्णानि च यया तथा, तरलिकया पूर्वोक्तया. दास्या अनुगम्यमाना अनु- वज्यमाना । मूर्च्छानिहितेन मूर्च्छासमये तरलिकया स्थापितेन, किञ्चिदाश्याना समयेन शुष्कतया ईषद्- घनीभूता या चन्दनस्य मलयजस्य ललाटिका भाले तिलकविशेषः तत्र लग्नाः संलग्ना अतएव धूसराः किञ्चित्पाण्डुराः लाकुला विक्षिप्ता अलकाः स्खलितकुन्तला यत्र तेन । आईण तत्कालेऽपि किञ्चित्क्लिन्नेन चन्दनरसस्य मलयजद्रवस्य चर्चा लेपनमेव अङ्गरागः स एव च वेशो नेपथ्यं तेन उपलक्षिता । अपि च, तथैव तत्काले स्थापनरूपेणैव, कण्ठस्थितया गलनिहितया अक्षमालया जपमालया चोपलक्षिता । तथा श्रवणशिखरचुम्बिन्या कर्णोपरिव्यापिन्या, तथा पारिजातमञ्जर्या मन्दारवल्लर्या चोपलक्षिता इह प्रियसम्बन्धि तदिद मण्डनमिति शरीरात्पृथक्तुं नाशाकीति न विस्मर्त्तव्यम् । तथा पद्मरागरत्नस्य लोहित-


सरोवरकी कुमुदिनी प्रस्फुटित होने (खिलने) लगी थीं, प्रस्फुटित कुमुद-वनकी अतिशय रजसे मध्यभाग श्वेत- वर्ण हो जानेके कारण आकाश रात्रिरूप नदीके पुलिन (तोयोत्थित बालुकामय देश) के समान दिखलाई देता था, समस्त जीवलोक महासमुद्रके समान, चन्द्रोदयसे आनन्दमें मग्न होकर, मानो शृङ्गाररसमय, उत्सवमय, विलासमय एवं प्रीतिमय हो गया था, चन्द्रकान्तमणिमयी प्रणाली (पनालों) में से जलनिस्ररण होने लगा था, . हर्षे-प्रमोदसे गान करते मयूरोंके स्वरसे मनोहर-प्रदोषकाल उपस्थित होने पर, नानाविध पुष्प, ताम्बूल, अङ्गलेपनद्रव्य और अबीर चूर्ण लेकर पीछे-पीछे आती तरलिकाके साथ-मूर्च्छाके समय ललाट पर लगाए, थोड़े- थोड़े शुष्क, चन्दन-रसमें संलम्न हो (चिपक) जानेसे धूसरवर्ण हुए और बिखरी लटों सहित, चन्दनरसके लेपन- रूपी अंगरागसे अत्यन्त आर्द्र हुए वेश-विन्यास-सहित, वैसीकी वैसी गलेमें धारण की हुई जपमाला-सहित


१. अन्तरिक्षे । • २. प्रीतिमय इव, मदनमय इव विलासमय इव । ३. अङ्गाङ्गेण ।