कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 546, कुल 709 में से
संदर्भ में पढ़ेंचन्द्रापीडद्वारा महाश्वेताश्वासनम् ७७] चन्द्रकला-विद्योतिनीसहिता । ५०७
हारिणि हरनयनहुतभुजा^१ दग्धेऽप्यविरहितामसुभिः । पृथाञ्च^२ वार्ष्णेयीं शूरसेनसुतामभिरूपे सावज्ञविजित^३-सकल-राजक-मौलि-कुसुमवासितपादपीठे^४ पत्यावखिल भुवन-बलि-भागभुजि पाण्डौ किमिन्दममुनि^६ शापानलेन्धनतामुपगते ऽप्यपरित्यक्तजीविताम् । उत्तराञ्च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ^८ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि^९ धृतदेहाम् । दुःशलाञ्च^१० धृतराष्ट्रदुहितरं भ्रातृशतोत्सङ्गलालितामतिमनोहरे हर-वर-प्रदान
ननु 'न देवचरितं चरेत्' इति निषेधेन न स दृष्टान्तो भवितुमर्हति अतो लौकिकं कञ्चन दृष्टान्तमुपस्थापयेत्यत आह—पृथामिति। अभिरूपे रमणीये, अतएव प्रियतमे इत्याशयः, सावज्ञं सहेलं विजितं स्वाधीनीकृतं यत् सकलं समस्तं राजकं नृपसमूहः तस्य मौलिकुसुमैः शिरःपुष्पैः वासितं नमस्कारकालीनसम्पर्केण सुगन्धीकृतं पादपीठं समग्रपदासनं यस्य तस्मिन्, अतएव अखिलभुवनस्य समग्रविश्वस्य बलिभागं राजग्राह्यं करं भुनक्तीति तस्मिन्, महावीरे चक्रवर्त्तिनि च न पुनः क्षुद्रे इत्याशयः, पत्यौ पाण्डौ, किमिन्दमाभिधमुनेः शापानलस्य अभिसम्पातवह्नेः इन्धनतां काष्ठत्वम् उपगते प्राप्तेऽपि अपरित्यक्तजीविताम् अनुज्झितप्राणाम्, वृष्णेः अपत्यं स्त्रीति वार्ष्णेयी तां वृष्णिकुलसम्भूताम्, न पुनर्नचिकुलसम्भूतां येनाविनीततया प्राणं त्यजेदिति भावः, शूरसेनस्य राजर्षेः सुतां दुहितरम्, न पुनर्यस्य कस्यचिच्छुद्रस्य दुहितरम् येन पितृवदशिष्टतया प्राणं त्यजेदिति भावः, पृथां कुन्तीं च स्मर । इह पूर्ववत्परिकरः, तथा शापेऽनलत्वारोपः पाण्डौ काष्ठत्वारोपे निमित्तमिति परम्परितरूपकमित्यनयोश्शाङ्गाङ्गिभावसङ्करः।
अत्रायमितिहासः—पुरा किल मृगरूपं धृत्वा मृगीभिर्विपिने रममाणः किमिन्दमो नाम मुनिः मृगयार्थिना पाण्डुना मृगबुद्धया निहतस्तदा स मुनिस्तं शशाप—'रममाणं मां यस्त्वं निहतवान्, अतस्त्वमपि रममाण एव शरीरं त्यक्ष्यसि' इति । ततः कदाचिद्वसन्तप्रभावादुद्दीप्तकामः पाण्डुर्माद्रीं रमयन्नेव तच्छापमाहात्म्यान्ममार, माद्री तु तमनुमृतवती, अनुमृतायामपि तस्यां जीवन्ती कुन्ती युधिष्ठिरप्रभृतीनुत्पाद्य पाल्यामासेति । स्पष्टञ्चायं महाभारतादिपर्वणि ।
ननु ते रतिकुन्त्यौ प्रौढे अहं तु बालातस्ताभ्यां सह मे तुलना नोपयुज्यत इत्यत आह—उत्तरामिति । बालशशिनीव नवोदितचन्द्र इव, नयनानन्दहेतौ नेत्राह्लादकारणेन, अतएव प्रियतम इति भावः, विनयवति शिष्टशालिनि, न पुनरुद्धतस्वभावे येन विरागात् शरीरं त्यजेदित्याशयः, तथा विक्रान्ते पराक्रमवति, न पुनः शक्तिहीने येनावहेलया शरीरं त्यजेदित्यभिप्रायः, अभिमन्यौ पत्यौ, पञ्चत्वं निधनत्वम् उपगते प्राप्तेऽपि धृतदेहां गृहीतशरीराम्, बालां भवद्विधामसमाप्तकामपिपासामित्याशयः, विराटस्य राजर्षेः दुहितरम् आत्मजाम्, न पुनरशिष्टस्य दुहितर येनाशिष्टत्वाच्छरीरं त्यजेदिति भावः उत्तराञ्च स्मर। इह 'बालशशिनीव' इत्यत्र पूर्णोपमा पूर्ववत्परिकरश्च, तया चानयोरङ्गाङ्गिभावसङ्करः।
अथैवमपि मद्धिधा स्वजनादरिणी सती एवंविधा भाग्यहीना काचिदन्याऽवलोकिताऽऽकर्णिता वा किमित्यत आह—दुःशलामिति । हरस्य महेशस्य वरप्रदानेन वर्धितो वृद्धिं प्राप्तो महिमा माहात्म्यं यस्य तस्मिन्, अत एव विशेषप्रीतिपात्रे न तु क्षुद्रे येनावहेलया जीवनधारणं स्यादित्याशयः, अतिमनोहरे अत्यभिरामे, न तु कुरूपे येन विरागात्, प्राणधारणं कुर्यादित्यभिप्रायः, सिन्धुराजे सिन्धुदेशनाथे,
दर्पणकारो और माहात्म्यशाली भर्त्ता कामदेवके, महादेवके तृतीय नयनसे उत्पन्न हुई अग्निसे दग्ध होने पर भी उनकी एकमात्र प्रियतमा परमसती रतिदेवीने प्राणका परित्याग नहीं किया। और अवहेलनासे जीते हुए समस्त राजाओंके नमस्कार करनेके समयमें मस्तकसे गिरे हुए पुष्पोंसे जिनका चरणामन सुगन्धित हुआ था और समस्त भुवनोंमेंसे जिन्होंने राजभाग (कर) ग्रहण किया था और परम-सुन्दर थे, ऐसे अपने पति महाराज 'पाण्डु' के, 'किमिन्दम'-मुनिके शापाग्निसे दग्ध होने पर भी, वृष्णिकुलोत्पन्ना शूरसेनकी कन्या कुन्ती-देवीने अपना प्राण परित्याग नहीं किया था। एवं नवोदित चन्द्रके समान नयनानन्द-दायक, विनीतस्वभाव और पराक्रमशाली अभिमन्युके युद्धमें मरनेपर भी विराटराजाकी पुत्री बाला उत्तराने भी शरीर धारण ही किया था। और दुर्योधन प्रभृति सौ भाइयोंकी गोदमें खिलाई गई, धृतराष्ट्रकी कन्या दुःशला सिन्धुराज जयद्रथ नामके परम सुन्दर
१. हरहुताशनदग्धे, हरहुंकारहुतभुजा दग्धे । २. तथा । ३. सावज्ञावजित । ४. वासिताशेषपादपीठे। ५. दलयभुजि । ६. किन्दममुनि ० ० । ७. उपागतेऽरिविक्रम । ८. जननयनानन्दहेतौ । ९. आगतेऽपि १०. दुःशल्याञ्च दुःशीलां च ।