भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 555, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 555
५१६कादम्बरी-[ कथायाम्-

सा चामुमैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमार्काषीत्—‘नाहं कथञ्चिदपि सशोकायां महाश्वेतायामात्मनः पाणिं ग्राहयिष्यामि’ इति। सखीजनस्य पुरतः सशपथमभिहितवती च—‘यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित् कस्मैचिद्दातुमिच्छति^२, ^३तदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्स्रक्ष्यामि’ इति। सर्वञ्च तदात्मदुहितुः कृतनिश्चयं ^४निश्चलभाषितं कर्णपरम्परया परिजनसकाशाद्गन्धर्वराजश्चित्ररथः स्वयमशृणोत्। ^५गच्छति काले समुपारूढनिर्भरयौवनामालोक्य सुतां^६ बलवदुपता^७पपरवशः क्षणमपि न ^८धृतिमलभत। एकापत्यतया चातिप्रियतया च न ^९शक्तः किञ्चिदपि तामभिधातुम्। अपश्यंश्चान्यदुपयान्तरम्, इदमत्र प्राप्तकालमिति मत्वा, तया महादेव्या मदिरया सहावधार्य क्षीरोदनामानं ^१०कञ्चुकिनं ‘वत्से ! महाश्वेते ! ^११त्वद्व्यतिकरेणैव दग्धहृदयानामिदमपरमस्माकमुपस्थितम्, ^१२इदानीन्तु ^१३कादम्बरीमनुनेतुं त्वं शरणम्’ इति

सेति। हतवृत्तान्तेन दुष्टोदन्तेन, समुपजातशोका समुत्पन्नशोका। कथञ्चिदपि केनचित्प्रकारेणापि। आत्मनः स्वस्य पाणिं नाहं ग्राहयिष्यामि, महाश्वेतायाः शोकनिवृत्तौ तद्विवाहं करिष्यामीत्याशयः। अनिच्छन्तीमपि अनभिलषन्तीमपि। दातुमिच्छति दित्सति। अनशनेन भोजनपरित्यागेन, हुताशनेन तत्र प्रवेशेन, रज्ज्वा उद्बन्धनेन, विषेण विषमक्षणेन वा, नियतं निश्चितम् आत्मानं निजशरीरम्, उत्स्रक्ष्यामि परित्यक्ष्यामि।

सर्वमिति। आत्मदुहितुः निजसुतायाः। निश्चलभाषितं शपथवचनम्, कर्णपरम्परया श्रोत्रप्रणालिकया। सुतां पुत्रीं कादम्बरीम्, समुपारूढं समुत्पन्नं निर्भरम् अतिशायि यौवनं तारुण्यं यस्याः ताम्, बलवतो महतः उपतापस्य सन्तापस्य परवशः अधीनः। धृतिं धैर्यम् न अलभत न प्राप्तवान्। एकापत्यतया एकसन्ततितया, न शक्तः समर्थः।

अपश्यन्निति। अन्यदुपयान्तरम् अन्यप्रकारमुपायमित्यर्थः, अतएव नार्थगतपुनरुक्ततादोष इत्यर्थः। प्राप्तकालम् उचितसमयम्। अवधार्य विमर्शन निश्चीय। कञ्चकिनमिति प्रेषितवानित्युत्तरक्रियायाः कर्म। त्वद्व्यतिकरेणैव तवोदन्तेनैव दग्धं शोकानलेन ज्वलितं हृदयं मनो येषां तेषाम्, अस्माकम्, इदमपरं क्लेशदम् उपस्थितं प्राप्तम्, कादम्बर्या निजपाणिग्रहणे अननुमद्युत्पादितमित्याशयः। अनुनेतुम् अनुनयेन पाणिग्रहणे सम्मतिं विधातुं त्वमेव शरणम् अस्माकमवलम्बनम्, त्वदर्थमेवैवंविधशपथविधानात् त्वद्वाक्याधीनत्वाच्चेत्याशयः।


विह्वल हो, निश्चय किया कि—'महाश्वेताके शोकातुर रहने पर मैं किसी प्रकारसे भी अपना पाणिग्रहण (विवाह) नहीं करूंगी'। और सखियोंके समक्ष उसने शपथ-पूर्वक कहा कि—'मेरी इच्छा न रहने पर भी पिता यदि बलपूर्वक किसी समय किसीके भी हाथमें मुझे देना चाहेंगे तो मैं अनशन अथवा अग्निप्रवेश किंवा उद्बन्धन (फांसी लगा) अथवा विषभक्षण कर निश्चय ही प्राण-त्याग कर दूंगी। अपनी पुत्रीके किए हुए इस निश्चय और शपथ-वचनको किसी परिजनके द्वारा स्वयं गन्धर्वराज चित्ररथने कर्ण-परम्परासे श्रवण किया। फिर कुछ समय व्यतीत होने पर उस (कादम्बरी) का पूर्ण यौवनकाल उपस्थित देखकर उनको अत्यधिक सन्ताप हुआ, और क्षण भरके लिए भी धैर्य नहीं मिला। केवल एक ही सन्तानके और उस पर अत्यधिक स्नेह होनेके कारण वे उससे कुछ भी कहनेके लिए समर्थ न हुए। दूसरे किसी उपायको नहीं देख कर 'इस समय यही उचित है' इस प्रकार मनमें मानकर उस महादेवी मदिराके साथ आलोचनापूर्वक स्थिर कर, आज ही प्रातःकाल मेरे समीप 'क्षीरोद' नामक कञ्चुकीको यह सन्देश कह कर भेजा कि—'पुत्री महाश्वेते ! केवल तुम्हारे वृत्तान्तसे ही शोकानलमें हृदय दग्ध हो गया है; उस पर एक और दुःख उपस्थित हो गया है, इस लिए इस समय कादम्बरीको अनुनय वचनोंसे


१. समुत्पन्न····।
२. इच्छेत्।
३. ततः।
४. कृतनिश्चलभाषितम्, कृतनिश्चयनिश्चलभाषितन्।
५. इह 'अतिप्रेमतया' इत्यधिकः पाठः कचिदुपलभ्यते।
६. स तां।
७. बलवद्द्‌दूयमानः।
८. सन्तप्तापेन बलवद्द्‌दूयत न क्षणमपि धृतिमलभत।
९. शक्नोति।
१०. क्वचित् 'ब्रूहि गत्वा वधः' इत्याधिकः पाठः।
११. तद्व्यतिरेकेणैव।
१२. क्वचित् 'तु' पदं न विद्यते।
१३. कादम्बरीव्यतिकरे।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 555, कुल 709 में से · BharatKosha