भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 574, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 574

कन्यापुरोदन्तवर्णनम् ८१ ] चन्द्रकला-विद्योतिनीसहिता । ५३५

वातायनपतितपद्मरागालोकं^१ प्रति बालातपशङ्कया^२ करतलमातपत्रीकरोषि । खेद-स्रस्त^४-हस्त-गलित-चामरे^५ ! नखमणिमयूख^३कलापमाधूनोषि' इत्येतान्यन्यानि च शृण्वन्नेव कादम्बरी-भवनसमीपम् उपययौ^७ । पुलिनायमानमुपवनलता-गलित-कुसुम-रेणु-पटलैः, दुर्दिनायमाननिभृत-परभृत-नख-क्षताङ्ग^८-सहकारफल-रस-वर्षैः, नीहारायमाणमलिन-विप्रकीर्णैर्वकुल-सेक-सीधु-धारा-धूलिभिः,

सुप्रस्थितमित्याशयः । 'विसप्रसूनराजीवपुष्कराम्भोरुहाणि च' इत्यमरः । जालवातायने जालरूपे गवाक्षे पतितः संस्पृष्टः पद्मरागस्य लोहितमणेः आलोकः प्रकाशः तं प्रति तद्विषये, बालातपशङ्कया प्रत्यग्रोदित-सूर्यप्रकाशभ्रान्त्या करतलं स्वहस्तमेव आतपत्रीकरोषि तत्प्रतिषेधेच्छया छत्रीकरोषि ।

इह लोहितकमणिप्रकाशे बालातपभ्रान्त्या भ्रान्तिमानलङ्कारः । विसप्रसूनादपि तेऽधिकं सौकुमार्यं येन हि नवोदितसूर्यालोकभ्रान्त्यापि सातपत्रकरव्यापारैवेति परिहासः ।

खेदेति । खेदेन मञ्चालनपरिश्रमेण त्रस्तात् शिथिलात् हस्तात् करात् गलितं प्रच्युतं चामरं बाल-व्यजनं यस्यास्तत्सम्बुद्धौ रूपम्, अतएव बालव्यजनभ्रान्त्या नखमणिरश्मिसमूहान्दोलनमित्याशयः । नखमणीनां नखस्थापिताभरणरत्नानां मयूखकलापं रश्मिसमूहम् आधूनोषि चालयस्यजनभ्रान्त्यान्दोल-यसि । इह हि वाचकशब्दाभावादुत्प्रेक्षालङ्कारः प्रतीयते । तयाविधभ्रान्तिवशाच्चोपहासप्रतीतिः । इत्येतानि पूर्वोक्तानि अन्यानि एतदतिरिक्तानि च वाक्यानि शृण्वन्नेव आकणर्यन्नेव कादम्बरीभवनं गन्धर्वराजपुत्री-गृहम् उपययौ जगाम चन्द्रापीड इति शेषः ।

पुलिनेति । उपवनं पार्श्ववर्त्युद्यानं तस्य लताभ्यो वल्लीभ्यो गलितानि पतितानि यानि कुसुमरेणु-पटलानि पुष्पपरागपुञ्जानि तैः पुलिनायमानं श्वेतत्वसादृश्यात् बालुकामयवदाचरन्तम् । इत आरभ्य द्वितीयान्तानि पदानि अग्रेतनस्य 'मार्गमद्राक्षीत्' इत्यत्र मार्गमित्यस्य विशेषणान्यवगन्तव्यानि ।

दुर्दिनेति । अनिभृताश्चञ्चला ये परभृताः कोकिलाः तेषां नखैः नखरः क्षतानि विदीर्णानि अङ्गानि अवयवा येषां तथोक्तानां सहकारफलानां पार्श्वस्थानाम्राम्रफलानां रसवर्षैः, दुर्दिनायमानं दृष्टित्वासम्पदा-चरन्तम् ।

नीहारेति । अनिलविप्रकीर्णैः पवनविक्षेपैः वकुलानां केसराणां वृक्षाणां सेके कुसुमप्रस्फुटनाय सेचनकाले सीधुधाराणां सुन्दरीवदनमद्यप्रवाहाणां धूलिभिः कणैः, नीहारायमाणं श्वेतत्वसादृश्यात् तुहिनपुञ्जवदाचरन्तम् ।

ननु 'रेणुर्द्वयोः स्त्रियां धूलिः' इत्यमरेण धूलिशब्दस्य स्त्रीलिङ्गत्वेन कथमिह पुंल्लिङ्गतेति चेत् ? सत्यम् 'द्विरदघटाकुम्भभित्तिसम्भवेन धातुंधूलिने'ति प्रयोगात् 'धूलिः पुंस्यपि' इत्यमरटीकायां रघुनाथोपा-ध्यायापनिरासात् ।


कोमलताको भी न्यून करती हो, अतएव गवाक्ष जाल (खिड़कियों की जाली) में पड़े पद्मरागमणिके प्रकाशको ही नवोदित सूर्यालोक समझ कर उसे निवारण करनेके लिए छत्र करती (छतरी का काम लेती) हो; अरी अवले ! आन्दोलन-जनित परिश्रमसे तेरे हाथमेंसे चामर गिर पड़ा है—इसे तू जानती नहीं है और केवल नखमणियों ही चामर समझकर आन्दोलन किया (हिलाया) करती है—इस प्रकारके और अन्यान्य अनेक प्रकारके वाक्योंको सुनते-सुनते ही चन्द्रापीड जाकर कादम्बरीके भवनके समीप उपस्थित हुआ (आया) ।

वहाँ उपस्थित होकर उसने एक मार्गको देखा; वह मार्ग पार्श्ववर्ती उद्यानकी लताओंके फूलोंमेंसे पराग गिरनेसे पुलिन (बालुकामय) के समान लगता था; चञ्चल (•आर करती) कोकिलोंके नखसे क्षत-विक्षत (फुँदरे) हुए आम्रोंके फलका रस वर्षण होने (टपकने) से वहाँ वृष्टिके दिनके समान दीखता था; पवनसे इतस्ततः विक्षिप्त किए (बिखरे) हुए—पुष्पविकासके लिए बकुलवृक्षके ऊपर सुन्दरी मुखमद्यधाराके-कणोंसे वह


१. अवलोकम् । २. आशङ्किनी । ३. सानन्दं । ४. खेदग्रस्त••• । ५. कलितचामरा, कलितचामरैः । ६. किरण••• । ७. भवनमुपसृत्य ययौ, भवनमुपययौ । ८. ०क्षताग्रन••• ।