भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 62, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 62

शूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १३

विद्ग्धानाम्, वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारित^२सकलाराति-कुलाचलो राजा शूद्रको नाम ।

नाम्नैव यो निर्भिन्नास्रतिहृदयो विरचितनरसिंह^३-रूपाडम्बरम्, एकविक्रमाक्रान्तस-कलभुवनतलो विक्रमत्रयायासितं^४ भुवनत्रयं जहासेव^५ वासुदेवम् ।

अतिचिरकाललग्नमतिक्रान्तनृपतिसहस्रसम्पर्ककलङ्कमिव क्षालयन्ती यस्य विमले^६ कृपाणधाराजले चिरमुवास राजलक्ष्मीः^७ ।

वैनराजात्मजः पृथुरिव चापकोट्या कोटिसंख्यककार्मुकैः अगणितधनुर्धरसैनिकैरित्यर्थः, पक्षे-चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता विनाशिताः स्थानान्तरं प्रापिताश्च सकलारातयः समग्ररिपवः कुलाचलाः महेन्द्रादयः कुलपर्वता इव येन स तथोक्तः । कुलपर्वताश्च-‘महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥’ उभयोः साम्यात्पूर्णोपमालङ्कारः । पुरा किल पृथुः पर्वताकीर्णां वासानर्हां पृथिवीं समवलोक्य तत्समतलीकरणप्रवृत्तो धनुष्कोट्या पर्वतानुत्सारयामासेति पौराणिकी वार्त्तानुसन्धेया ।

नाम्नैवेति । यः शूद्रकः नाम्नैव निजनामश्रावणमात्रेणैव निर्भिन्नानि भयोत्पादनेन विदारितानि अरातीनां शत्रूणां हृदयानि वक्षांसि येन स तादृशः । विरचितः हिरण्यकशिपुहृदयभेदनाय विहितो नरसिंहस्वरूपधारणस्य आडम्बर आटोपो दीर्घव्यापार इति यावत्, येन स तं तादृशम् । एकेनाद्वितीय्रेन विक्रमेण, पराक्रमेण आक्रान्तम् अधीनीकृतं सकलं समस्तं भुवनतलं विष्टपतलं येन स तादृशः ‘विष्टपं भुवनत्रयम्’ इत्यमरः । विक्रमः पादन्यासः तस्य त्रयं त्रितयं तेन आयासितं खिन्नीकृतं भुवनत्रयं विष्टपं येन तं तथोक्तं वासुदेवं श्रीपतिं जहासेव हसति स्मेव । अयमाशयः—महीपतिरयं निजनामश्रावणमात्रेणैव शत्रूणां वक्षो भेदितवान्, वासुदेवस्तु शत्रुवक्षोभेदनाय नृसिंहावताराडम्बरं कृतवान्, तथा महीपतिना चानेनानायासेन केनैव पराक्रमेण चतुर्दशभुवनानि स्वाधीनीकृतानि, वासुदेवेन तु त्रिभिरेव विक्रमैः केवलानि त्रीण्येव भुवनान्याक्रान्तानीति योऽयं महीपतिकृतो वासुदेवोपहासः स न्याय्य एवेति ।

विष्णुः बलिं विजेतुं वामनरूपमङ्गीकृत्य छलना तं भुवनत्रयं विक्रमत्रयेणासादितवानिति पौराणिकी वार्त्ता । इहोपमानाद्वासुदेवादुपमेयस्य महीपतेराधिक्यवर्णनाद्व्यतिरेकालङ्कारः । जहासेवेति क्रियोत्प्रेक्षा चेति उभयोरङ्गाङ्गिभावेन सङ्करः ।

अतिचिरकालेति । अतिचिरकालो भूयान् समयः तेन लग्नम् आत्मनि संयुक्तम्, अतिक्रान्तं व्यतीतं यत् नृपतिसहस्रं कदर्यनरपतिसमूहः तस्य सम्पर्केण सम्बन्धेन यः कलङ्को दूषितचिह्नं प्राप्तं तं तथोक्तम्, क्षालयन्तीव प्रक्षालनेन प्रमार्ज्यन्तीव यस्य महीपतेः ( शूद्रकस्य ) विमले स्वच्छे कृपाणधाराजले खड्ग-धारारूपे जले चिरं बहुसमयं यावत् लक्ष्मीः राज्यश्रीः उवास वसति चक्रे, अन्योऽपि लोकः पङ्कादिलग्नं शरीरं जलेन क्षालयति । खड्गबलेनैव राजा राज्यलक्ष्मीं स्वाधीनीकृतवानित्याशयः । इह क्षालयन्तीवेति क्रियोत्प्रेक्षणात् क्रियोत्प्रेक्षालङ्कारः, ‘कृपाणधाराजल’ इत्यत्र निरङ्गं रूपकञ्चेत्युभयोरङ्गाङ्गिभावेन सङ्करः ।

पराक्रमियों का प्रधान था और चतुर पण्डितों का अगुआ था। गरुड़ ने अपनी माता विनता को आनन्दित किया था, उसने अपने अधीनों को आनन्दित किया था। राजा पृथु ने अपने धनुष की कोटि से पर्वतों को हटाकर पृथ्वी को समतल किया था, उसने अपने अगणित धनुर्धारी सैनिकों से शत्रुओं का विनाश करके शासन को निष्कंटक बना दिया था।

उसने अपने नाम के प्रताप से ही शत्रुओं के हृदय को विदीर्ण कर दिया था और अद्वितीय पराक्रम से सारी पृथ्वी को अपने अधीन कर लिया था। इसी नाते वह शत्रु-वध के लिए नृसिंह रूप का आडम्बर रचनेवाले तथा तीन पगों से तीनों लोकों को नाप लेने के लिए वामन रूप धारण करने का कष्ट उठाने वाले भगवान् वासुदेव की हँसी सी उड़ाया करता था।

युगों से दुष्ट राजाओं के सहवास में रहने के कारण राज्यलक्ष्मी में जो कलंक लग चुके थे उन्हें ही मानो धोती हुई वह उसके कृपाण की जल-धारा में बहुत दिनों तक निवास करती रहती रही !


१. वैन्यः, पृथुः ।
२. समुत्सारिताराति० ।
३. नारसिंह० ।
४. आयासितम् आयास्यमानम् ।
५. हसति स्मेव ।
६. 'विमले' इति पाठः क्वचिन्न विद्यते ।
७. लक्ष्मीः ।