कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 637, कुल 709 में से
संदर्भ में पढ़ें५६८ | कादम्बरी- | [ कथायाम्-
अपि च युवयोर्दूरस्थितयोरपि स्थितेयमिदानीं 'कमलिनीकमलवान्धवयोः'रिव कुमुदिनीकुमुद-नाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुजानातुं भवती' इति ।
अथ कादम्बरी 'सखि ! महाश्वेते ! स्वाधीनोऽयं सपरिजनेा जनः कुमारस्य स्व इवा-न्तरात्मा, क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय 'प्रापयत कुमारं स्वां भूमिम्' इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेताम्, ततः कादम्बरीम्, तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः—'देवि ! किं ब्रवीमि, बहुभाषिणः न श्रद्दधाति लोकः, स्मर्त्तव्योऽस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तःपुरान्निर्जगाम कादम्बरी-वर्जः अशेषः कन्यकाजनो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमाबहिस्तोरणादनुवव्राज ।
अपीति । युवयोः कादम्बरीचन्द्रापीडयोः दूरस्थितयोरपि दविष्ठयोरपि, इदानीं साम्प्रतं कमलिनी-कमलवान्धवयोःरिव पद्मिनीसूर्ययोरिव कुमुदिनीकुमुदनाथयोरिव कैरविणीचन्द्रयोरिव प्रीतिः स्नेहः आप्रलयातू आकल्पान्तात् इयं स्थिता, अतः अस्मात्कारणात् । अभ्यनुजानातु गमनाय लाज्ञां ददात्वित्यर्थः ।
इह कमलिनीकमलवान्धवयोः स्त्रीपुँल्लिङ्गाभ्यां कामिनीकामुकव्यवहारसमारोपाद् समासोक्तिः श्रौतोपमा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करः, एवं कुमुदिनीकुमुदनाथयोरित्यत्रापि सङ्करः, तयोश्च पुनः परस्पर-नैरपेक्ष्येण संसृष्टिः, एवञ्च कादम्बरीचन्द्रापीडयोरपि कामिनीकामुकभावो ध्वन्यते इत्यलङ्कारेण वस्तुध्वनिः ।
अथेति । सपरिनजः परिचारिकागणसहितः 'अयं मल्लक्षणो जनः, कुमारस्य चन्द्रापीडस्य स्वः अन्तरात्मन्येव स्वस्य' अधीन आयत्तः, अतएव अत्र गमनविषये क इव अनुरोधः सङ्कोचः (समानुमति-ग्रहणाग्रहः) अपि तु न कोऽपीत्यर्थः, सेवकजनात्त्वामितोऽभ्यनुज्ञाग्रहणापेक्षाभावदित्याशयः ।
इह श्रौतोपमा वाक्यार्थहेतुकं काव्यलिङ्गञ्चेत्युभयोरङ्गाङ्गिभावासङ्करः ।
चन्द्रेति, प्रथमम् आदौ । प्रणम्य नमस्कृत्य । प्रेमस्निग्धे अनुरागार्द्रेण । गृह्यमाणो वशीक्रियमाणः सन् । बहुभाषिणो वाचालात् । न श्रद्धधाति विश्वसिति, 'ब्रुवते हि फलेन साधवो न तु शब्देन' इति न्यायात् अतोऽल्पाक्षरेण कथयामीत्यभिप्रायः । किन्तद्वक्तव्यमित्यत आह— स्मर्त्तव्य इति । परिजनकथासु निजसेवकवार्त्तासु स्मर्त्तव्यः स्मरणीयोऽस्मि । अनेन स्वस्य परिचारकजनत्वं ध्वनितम् । इत्यभिधाय इत्युक्त्वा कन्यकान्तःपुरात् कुमारिकावरोधपुरात् निर्जगाम निर्ययौ ।
कादम्बेति । कादम्बरीं वर्जयति त्याजयतीति सः कादम्बरीभिन्न इत्यर्थः । अशेषः समग्रः कन्यकाजनः कुमारिकावर्गः, गुणगौरवेण उत्कर्षातिशयेन आकृष्टः आकर्षितः, परवश इव चन्द्रापीडाधीन इव । तं चन्द्रापीडम् । आबहिस्तोरणात् वहिर्द्वारपर्यन्तम् अनुवव्राज पृष्ठतो जगाम ।
और चन्द्रके समान दूर रहने पर भी तुम दोनोंकी प्रीति अभीसे लेकर प्रलयकाल तक स्थिर रहेगी; इसलिए तुम जानेके लिए कुमारको अनुमति प्रदान करो ।'
उसके बाद कादम्बरीने कहा—'सखि, महाश्वेते ! जिस प्रकार उनकी अन्तरात्मा उनके अधीन है, उसी प्रकार परिजन-वर्गके साथ यह व्यक्ति भी कुमारके अधीन है, इसलिए इस विषयमें अनुरोध क्या है ?' इतना कहकर गन्धर्वकुमारोंको बुलाकर इस प्रकार आदेश दिया कि—'तुमलोग राजकुमारको अपने देशमें पहुँचा दो ।' इसके पश्चात् चन्द्रापीडने भी उठकर पहले महाश्वेताको और तदनन्तर कादम्बरीको प्रणाम किया ! उस समय कादम्बरीके प्रेमसे स्निग्ध नेत्र और मनके द्वारा अपनी ओर आकृष्ट होनेसे वह कहने लगा—'देवि! क्या कहूँ ? लोग बहुत बोलनेवाले व्यक्ति का विश्वास नहीं करते, इसलिए थोड़ेमें इतना कहता हूँ कि—'परिजन-कथाओंके मध्यमें आप मुझे भी स्मरण करना' इतना कहकर वह कन्याओंके अन्तःपुरसे निकल गया । उस समय कादम्बरीके अतिरिक्त अन्य समस्त कन्याएँ उसके गुण-गौरवसे आकृष्ट होकर पराधीनके समान बाहरके बड़े दरवाजे तक उसका अनुगमन कीं । बहिर्द्वार पर्यन्त आयीं ।।
१. अनुजानातु
२. सखि स्वाधीनः ।
३. बहुभाषिणे !
४ ॰॰॰वर्जोऽवशेशः, वर्जमशेषकन्यकाजनः, दर्शनेने-परस्तु कन्यकाजनः ।