भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 643, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 643

६०४ - कादम्बरी- [ कथामुखम्-

जग्राह। तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव¹ रसतामुपनीतेन, हृदयेनेव द्रुतेनेव गुणगणेनेव निस्यन्दितेनं² स्पर्शवता ह्लादिना सुरभिणा च विलेपनेन विलिप्य तमेव कण्ठे हारमकरोत्। आगृहीतताम्बूलश्च मुहूर्तादिवोत्थाय वामबाहुना स्कन्धदेशे समवलम्ब्य³ केयूरकम्, ऊर्ध्वस्थित एव कृतयथाक्रियमाणसम्मानमुदितं प्रधानराजलोकं विसृज्य शनैः शनैर्गन्धमादनं करिणं द्रष्टुमयासीत्। तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निज-नखांशुजालजटिलं समृणालमिव शुष्कशष्पकवलमवकीर्य वल्लभतुरङ्ग⁴-मन्दिराभिमुखः प्रतस्थे, गच्छंश्चोभयतः किञ्चित् किञ्चिदिव तिर्यग्वलितवदनः परिजनं विलोकयाम्बभूव।

अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिले समुत्सारिते परिजने केयूरकद्वितीय


तेनेति। गलितेन प्रस्रुतेन कादम्बर्याः कपोललावण्येनेव गण्डयोः सौन्दर्येणेव, रसतां द्रवताम् उपनीतेन प्रापितेन कादम्बर्याः स्मितालोकेनेव मन्दहास्यदीप्त्येव, द्रुतेन द्रवीभूतेन कादम्बर्या हृदयेनेव अन्तःकरणेनेव, निस्यन्दितेन गलितेन कादम्बर्या गुणगणेनेव, स्पर्शवता प्रशस्तस्पर्शयुक्तेन, ह्लादिना आनन्दोत्पादकेन, सुरभिणा घ्राणतृप्तिविधायिना च तेन विलेपेन अङ्गरागेण, चन्दनेन विलिप्य अङ्गानीतिं शेषः। तमेव हारं शेषनामानं कण्ठे गले अकरोत् अघटयत्।

इह 'कपोललावण्येनेव' इत्यत्र गुणोत्प्रेक्षा, अवशिष्टेषु यथाक्रमं त्रिषु जात्युत्प्रेक्षाः।

आगृहीतेति। स्कन्धदेशे अंसभागे समवलम्ब्य सम्यगालम्बनं विधाय, ऊर्ध्वस्थित एव अनुपविष्ट- एव दण्डायमान एवेत्यर्थः। क्रियमाणं मुख्यराजपुत्रैरादौ विधीयमानं नमस्कारादिकमनतिक्रम्य विद्य-मानमिति यथाक्रियमाणम्, कृतेन विहितेन यथाक्रियमाणेन सम्मानेन प्रतिनमस्कारादिना मुदितं सन्तुष्टम्, प्रधानराजलोकं सामन्तगणं विसृज्य गृहे गम्यतामित्यभिधाय। गन्धमादनं तत्संज्ञकं करिणं हस्तिनम्। अयासीत् अगमत्।

तत्रेति। निजनखांशुजालेन स्वनखकिरणसमूहेन जटिलो विपक्षीकृतः तम्, अतएव समृणालमिव विससहितमिव, नखकिरणसमूहस्य मृणालसदृशत्वादित्याशयः। तस्मै गन्धमादनाय शष्पकवलम् अभिनवतृणगुडेरकम् अवकीर्य खादनाय विक्षिप्य, वल्लभाः प्रिया ये तुरङ्गमा अश्वाः तेषां या मन्दुरा शाला तदभिमुखः तत्संमुखः सन् प्रतस्थे चचाल। गच्छन् व्रजंश्च उभयतः द्वयोः पार्श्वयोः। तिर्यग्-वलितम् उभयतः प्रवर्त्तितं वदनं मुखं येन सः, परिचारकादीनामपसारणायेत्याशयः। विलोकया-म्बभूव ईक्षाञ्चक्रे।

अथेति। अथ तत्समीपगमनानन्तरम्, चित्तज्ञैः आशयाभिज्ञैरित्यर्थः। प्रतिषिद्धं निवारितम् अनु-गमनं राजपुत्रानुसरणं यस्य तस्मिन्, समुत्सारिते निकटाद् दूरीकृते सति। मन्दुरां वाजिगालां प्रविवेश प्रविष्टवान्। 'वाजिराला तु मन्दुरा' इत्यमरः।


पिघले हुए लावण्यके समान, रसताको प्राप्त हुए मन्द-हास्यके समान, द्रवताको प्राप्त हुए हृदयके समान और प्रवाहित हुए गुण-ग्रामके समान सुखस्पर्शवाले, आह्लादजनक एवं नासिकाकी तृप्ति करनेवाले चन्दनसे उसने समस्त अङ्गमें लेपन कर उस हारको कण्ठमें धारण किया। फिर ताम्बूलको लेकर, कुछ समयके बाद उठकर, वाम-बाहुद्वारा केयूरकके कन्धे पर सहारा देकर, दण्डायमान रह कर (खड़े-खड़े) ही, प्रत्यभिवादन-सम्मानसे सन्तुष्ट हुए अभिवादनकारी प्रधान राजाओंको विदा कर, धीरे धीरे वह गन्धमादन हाथीको देखने चला। वहाँ कुछ देर ठहर कर, नख-किरणोंसे उद्भासित, अत एव मृणालयुक्तके समान दीखती थोड़ी-सी शुष्क घास, उस गन्धमादनके आगे अपने ही डालकर, वहाँसे प्रीतिभाजन अश्वसमूहके गृहाभिमुख (अस्तबलकी ओर) प्रस्थान किया। जानेके समयमें वह दोनों तरफ थोड़ा-थोड़ा मुँह फेर कर परिचारकोंके प्रति दृष्टिपात करने लगा।

उसके बाद, उसके मनके अभिप्रायको जाननेवाले द्वारपालोंने परिजनोंको उसके अनुसरण करनेका निषेध करके दूर कर दिया। तब वह केवल केयूरकके साथ ही जाकर अश्वशाला (अस्तबल) में प्रवेश किया। द्वारपालोंके


१. स्मितावलोकेनेव। २. विस्पन्दितेन। ३. अवलम्ब्य। ४. ॅ तुरङ्गमॅ ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 643, कुल 709 में से · BharatKosha