कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 652, कुल 709 में से
संदर्भ में पढ़ेंकादम्बरीहिमगृहवर्णना १०८ ] चन्द्रकला-विद्योतिनीसहिता । [ ६१३
गृहाणां शिखरमारोप्यमाणानां धारा-कदम्ब-धूलिधूसरितानां¹ यन्त्रमयूरकाणां कदम्बकानि, क्वचित् सहकार-रससिक्तैः² जम्बूंपल्लवैराच्छाद्यमानाभ्यन्तराः पर्णशालाः, क्वचित् क्रीडित-कृत्रिम-करि-कलभ-यूथकाकुलीक्रियमाणाः काञ्चनकमलिनीकाः³, क्वचिद्-गन्धोदककूपेषु बद्ध-काञ्चन-सुधा-पङ्क-कामपीठेषु-स्थूल-बिसलता-दण्ड-घटितारकर्णिकृतकै⁴-केत...-जल-जल-द्रोणि-कानि कुवलयावलीरज्जुभिश्च बध्यमानानि पत्र⁵-पुट-घटी-यन्त्रकाणि, क्वचित् स्फटिकवलाकावलीवान्त-वारिधारा-लिखितॆन्द्रायुधाः सञ्चार्यमाणा मायामेघमालाः, क्वचिदुपान्त प्ररूढ-पाण्डु¹⁰...
धूसरिता धूम्रवर्णीकृताः तेषाम्, यन्त्रमयूरकाणां यन्त्रनिर्मितलघुबर्हिणां कदम्बानि समूहान् मृगालयुक्त-जलधारागृहाणां शिखरे (पृष्ठे) सेविकाभिर्यन्त्रमयूरा नीता ये हि जलधारासमूहानां क्षोदैर्धूसरिता इत्यर्थः 'पद्माक्षिलोगिन किञ्जल्कॆऽतन्त्वाचंशोऽप्यणोरसि' इति । 'शाद्वलः शादहरिते' इति चामरः ।
क्वचिदिति । सहकाररसेन आम्रद्रवेण सिक्ताः क्लिन्नीकृताः तैः, जम्बूंपल्लवैः जाम्बवकिसलयैः बाच्छाद्यमानानि छाद्यमानानि अभ्यन्तराणि यासां ताः, पर्णशाला उटजानि ।
क्वचिदिति । क्रीडितेन रचनानैपुण्यात् खेलाप्रवृत्तेन कृत्रिमेण क्रियया निर्वृत्तेन करिकलभानां त्रिशद्वर्षीयहस्तिशावकानां यूथकेन समूहेन आकुलीक्रियमाणाः परिचाल्यमानाः काञ्चनकमलिनीकाः कनकनलिनीः ।
क्वचिदिति । बद्धानि रचितानि, काञ्चनं सुवर्णमेव सुधापङ्कः धवलीकरणसम्पादकविलेपनद्रव्यं येषु तानि काञ्चनसुधापङ्कानि कामपीठानि अर्ध्याणां प्रयोजनीयानि मदनविष्टराणि येषु तेषु, गन्धोदकानां मलयजसंयुक्तसलिलानां कूपेषु उद्पानेषु स्थूलैः बिसलतादण्डैः मृगालदण्डैः घटितानि रचितानि अराणि चक्रान्तर्गतानि काष्ठनिर्मितान्यवयवानि येषां तानि, कृतकानि कृत्रिमाणि केतकदलानि केतकीपत्राण्येवं जलद्रोणिका सलिलाधारविशेषा येषु तानि, कुवलयावल्या नीलोत्पलपङ्क्त्या रज्जुभिर्नालतन्तुभिः ग्रथ्यमा-नानि मिथोबध्यमानानि, पत्रपुटान्येव घंट्यः लघुघटाः ता एव च यन्त्रकाणि तानि । शिशिरोपचारवर्णनेऽ-स्मिन् सुगन्धिसलमुताः कूपा अपि तथा येषामुपरि पत्रपुटरूपान् घटान् वहन्ति यन्त्राणि, जलधारा अपि केतकपत्रैर्विहितानीत्यर्थः । 'अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयोरपि' इति शाश्वतः ।
क्वचिदिति । स्फटिकवलाकावलीषु स्फटिकरचितवकपङ्क्तिषु वान्ता उद्गीर्णा वारिधारा जलधारा याभिस्ताः, लिखितानि चित्रितानि इन्द्रायुधानि शक्रधनूंषि यासु ताः, तथा सञ्चार्यमाग् रचनानैपुण्येनैव सञ्चाल्यमानाः, मायामेघमालाः कृत्रिमजलदपङ्क्तीः ।
क्वचिदिति । उपान्तेषु प्रान्तनिकटेषु प्ररूढाः सञ्जाताः पाण्डवः पाण्डुरवर्णा यवाङ्कुरा यासां तासु
देशवाले, मृणाल-प्रचुर जल-यन्त्रों ( फुहारे ) के शिखर पर रखे, जलधारासमूहों के क०से धूसरवर्ण हुए कृत्रिम यन्त्रमयूरो के झुण्ड हैं; किसी स्थानमें आमके रससे संसिक्त ( भिगोये हुए ) जम्बू (जामुन) पल्लवोंसे आभ्यन्तरदेश आच्छादित हुई पर्णशालाएँ निर्माण की हुई हैं; किसी स्थानमें कृत्रिमद्वारा कृत्रिम हस्तीके शावकों ( बच्चों ) की क्रीड़ासे सञ्चालित होतीं सुवर्णकी कमलिनियाँ हैं; किसी स्थानमें सुवर्णको गलाकर चूर्णद्रव्यके समान बना उससे लेपकर जिसके चबूतरे सुन्दर बना दिए गए हैं और जिनमें चन्दनसुवासित जल परिपूर्ण हैं-ऐसे कूपोंमें पत्र-पुटक ( पत्तेके ढोंगा ) के जलनिःसारणके यन्त्र पड़े हैं-उनके चक्रके अन्तर्गत-सरल-काष्ठ ( आरे ) स्थूल-मृगाल-दण्डरूपी दण्डके निर्माण किये गए थे, जल-ग्रहण-पात्र-विशेष ( डोल ) केतकीके कृत्रिम पत्तोंके थे और वे नीलो-त्पलावली-रूप रज्जुओंत परस्पर बँधे थे; किसी स्थानमें स्फटिक-निर्मित-बक-पङ्क्तियों ( क्रमबद्ध बगुलों ) के मुखोंमेंसे निकलती ( वमनकी हुई ) जलधारावाली और चित्रित इन्द्र-धनुषवाली कृत्रिम मेघ-मालाएँ निर्माण-कौशलसे सञ्चालित हो रही हैं; जिनके तटके समीपमें श्वेतवर्ण यवाङ्कुर उत्पन्न हुए थे और जिनकी तरङ्ग तैरती हुई नूतन मालती-पुष्पोंकी कलियोंसे विषम ( उच्च-नीच ) दीखती थी ऐसे श्वेतचन्दन-जलसे परिपूर्ण
¹ ॰॰॰धूसरितानि, ॰॰॰धूसराणाम् । ² सहकाररससिक्तैः । ³ ॰॰॰कमलिनिकाः । ⁴ ॰॰॰दण्डारकानि । ⁵ कनकवेनक ॰॰॰, कृतकेतक ॰॰॰ । ⁶ दलद्रोणिकानि । ⁷ कमलपत्र ॰॰॰ । ⁸ वलाकावलीः । ⁹ ॰॰॰रूढ ॰॰॰ । ¹⁰ क्वचित् 'पाण्डु' इति पदन्न विद्यते ।