भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 654, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 654

कादम्बरी-हिमगृहवर्णनम्-१०८ ] चन्द्रकला-विद्योतिनीसहिता ६१५

...चन्द्रापीडः क्रियमाणान् तृणशून्य-मञ्जरीकर्णपूरान्, क्वचिदम्भोजिनी-दल-व्यजनैर्वीज्यमानान् उपलभाजनभाजः शीतोपधिरसान्, अन्याँश्चैवं प्रकारान् शिशिरोपचारोपकरणकल्पनाव्यापारान् परिजनेन कृतान् क्रियमाणांश्च वीक्षमाणः, हिमगृहकस्य मध्यभागं हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, जन्मभूमिरिव सर्वचन्द्रकलानाम्, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणीनाम्, निवासमिव सर्वमाघमासयामिनीनाम्, सङ्केतसद्ममिव सर्वश्रावृताम्, ग्रीष्मोष्मापनोदनाद्देशमिव सर्वनिम्नगानाम्, वडवानलसन्तापापनोदननिवासमिव सर्वसागराणाम्, वैद्युत-दहन-दाह-प्रतीकारस्थानमिव सर्वजलधराणाम्, इन्दु-विरह-दुःसह-दिवसातिवाहन-स्थानमिव कुमुदिनीनाम्, हरहुताशननिर्वापणक्षेत्रमिव

'मल्लिका शतभीरुश्च गवाक्षी सद्गमल्लिका ।
शीतमीलन्मदयन्ती भूपदी तृणशून्यकम् ॥'

इति वनस्पतिः ।

क्वचिदिति । अम्भोजिनीदलानि कमलिनीपर्णान्येव व्यजनानि तालवृन्तानि तैः, उपलभाजनानि प्रस्तरपात्राणि भजन्त इति तान्, शीताः शिशिरा ये ओषधीनां फलरूपाक्रान्तवल्लीनां रसा निर्यासास्तान् ।

अन्यांश्चेति । एवं प्रकारान् एवंविधान्, शिशिरोपचाराः शीतलक्रियाः तेषाम् उपकरणकल्पनाः सामग्रीरचनानि तद्रूपा व्यापाराः क्रियास्तान् वीक्षमाणः अवलोकमानश्चन्द्रापीडः हिमगृहकस्य मध्यभागमगादिति सम्बन्धः सन्निहित एव ।

हिमगृहकस्य मध्यभागं विशिनष्टि-हिमेत्यादिना । इह द्वितीयाकवचनान्तानि पदानि 'मध्यभागम्' इत्यस्य विशेषणानि । हिमवतः तुषाराद्रेः हृदयं स्वान्तमिव, प्रचेतसो वरुणस्य जलक्रीडागृहमिव सलिलखेलाभवनमिव, सर्वचन्द्रकलानां समस्तशशिकलानां जन्मभूमिरिव उत्पत्तिस्थानमिव सर्वचन्दनवनदेवतानां निखिलमलयजारण्याधिष्ठात्रीणां कुलगृहमिव वंशपरम्परागतसद्ममिव, सर्वचन्द्रमणीनां समस्तचन्द्रकान्तानां प्रभवन्ति उत्पद्यन्ते अस्मादिति प्रभवो जन्मभूमिस्तमिव, सर्वमाघमासयामिनीनां समस्ततपोमासरात्रीणां निवसन्ति अस्मिन्निति निवासो वासस्थानमिव, सर्वश्रावृतां समस्तदर्षर्तूनां सङ्केतसद्ममिव सङ्कमाय सङ्केतितं गृहमिव, सर्वनिम्नगानां सकलसरितां ग्रीष्मे ग्रीष्मर्त्तौ य उत्पन्ना सन्तापः तस्य अपनोदनं दूरीकरणं तस्योद्देशो भूमिस्तमिव, सर्वसागराणां समस्तसमुद्राणां वडवानलेन वडवाग्निना यः सन्तापः तस्य यदपनोदनं तस्य निवासं वासस्थानमिव, सर्वजलधराणां सकलमेघानां विद्युत्तस्तडितः अयमिति वैद्युतो यो दहन ईरमदः (वह्निः) तेन यो दाहः सन्तापः तस्य प्रतीकारस्थानमिव प्रतिक्रियागृहमिव, कुमुदिनीनां कैरविणीनाम्, इन्दोश्चन्द्रस्य विरहेण वियोगेन दुःसहः असहो यो दिवसो वासरः तस्य अतिवाहनस्थानमिव उद्बहनभूमिमिव, तथा मकरध्वजस्य कामदेवस्य, हरस्य महेशस्य यो हुताशनस्तृतीयलोचनोत्पन्नो वह्निः तस्य निर्वापणक्षेत्रमिव निर्वापनस्थानमिव, सर्वत्रैव नितान्तशिशिरत्वादित्याशयः । वाच्योत्प्रेक्षालङ्कारश्च ।


जा रहे हैं; किसी स्थानमें मल्लिका-पुष्पमञ्जरीके कर्णपूर कदली-फलके रसमें आर्द्र किये जा रहे हैं; और किसी स्थानमें पाषाणनिर्मित पात्र (कुंडी) में परिपूर्ण शीतल-लताके रसको पद्मपत्रके पंखेसे किसी परिचारिका द्वारा वायु की जा रही है; परिजनवर्ग शीतलता-सम्पादन करनेके लिए इस प्रकार अन्यान्य समस्त सामग्रियोंका सङ्ग्रह करते और करते थे। उन सबोंको देखता-देखता जाकर राजपुत्र उस हिमगृहके मध्यस्थानमें उपस्थित हुआ (जा पहुँचा)। वह मध्यस्थानका भाग हिमालयका मानो हृदय था; वरुण-देवका मानो जल-क्रीडिका गृह था; समस्त चन्द्रकलाओंका ही मानो उत्पत्तिस्थान था; समस्त चन्दन वनदेवताओंका ही मानो पैतृक वासस्थान था; समस्त चन्द्रकान्त-मणियोँका ही मानो जन्मस्थान था; माघमासकी समस्त रात्रियोंका ही मानो निवास-भूमि था; समस्त वर्षाऋतुका ही संम्मिलित होनेके लिए सङ्केत-गृह था; समस्त नदियोंका ही मानो ग्रीष्म-सन्ताप-निवृत्तिके लिए निर्दिष्ट स्थान था; समस्त समुद्रोंक ही मानो वडवानल-सन्ताप दूर करनेके लिए वासगृह था; समस्त मेघों (वारिदों) का ही मानो विद्युत्सम्भूत अग्निके द्वारा दाहका प्रतीकार (शान्त) करनेका स्थान था; कुमुदिनियोंकी मानो चन्द्रविरहमें दुःसह दिन व्यतीत करने (काटने) का स्थान था; कामदेवका मानो हरनयनाग्निके


१. ०हृदयम् । २. ०भाजान् । ३. ०परिकल्पनाब्यापारान् । ४. अपनोदोद्देशमिव ।