भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 681, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 681

६४२ कादम्बरी [ कथायाम्-

कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव¹ ज्वलित-लोहित-मूर्द्ध-रत्न-रश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम्, सर्वतः कठोरवायसगणेन च रटता² स्तुतिपरेणेव स्तूयमानाम् ; स्थूलस्थूलैः शिराजालकैर्गोधा-गोधिका³-कृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैरङ्गेष्वविक्षितेन, अलक्ष्मी⁴-समुत्खात-लक्षणस्थानैरिव⁵ विस्फोटव्रणबिन्दुभिः कल्माषित-सकलशरीरेण, कर्णावतंससंस्थापिताया च चूडया रुद्राक्षमालिकामिव⁶ दधानेन,

त्यभिप्रायः। स्फुरन्ति स्पन्दमानानि अधरपुटानि येषां तैः, आखुभिर्मूषकैरपि जपपरैः मन्त्रजपप्रवृत्तैः सद्भिः आराध्यमानामिव, जपप्रवृत्तवत् स्पन्दमांनाधरपुटत्वादिति भावः। अधरपुटस्पन्दनमात्रतां स्वभावः। कृष्णाजिनं श्यामवर्णमात्मीयं चर्मकृष्णसारचर्म च तेन प्रावृतम् आच्छादितम् अङ्गम् अवयव येषां तेषां तैः कुरङ्गैर्मृगैरपि प्रतिशयितैः कृतप्रतिशयनैः सद्भिः आराध्यमानामिव, तद्वत् कृष्णाजिनाच्छादितावयवत्वादिति भावः। विपत्प्रतीकाराय अभीष्टप्राप्तये दिवसमासादिनियममशनापरित्यागपूर्वकं देवताग्रे शयनं प्रतिशयनम्। तथा ज्वलिता दीप्ताः, लोहिता अरुणवर्णाः, मूर्द्धरत्नस्य शिरोमणे रश्मयो रोचिषो येषां तैः कृष्णसर्पैर्विजातीयभुजङ्गैरपि शिरःसु मूर्धसु धृता मणयो रत्नान्येव दीपा मणिवद्दीपारूपा यैस्तैः सद्भि राराध्यमानामिव, मस्तकेषु दीपधारणपूर्वकं देवतोपासनां विधत्ते।

इह प्रत्येकवाक्य एव क्रियोत्प्रेक्षा, तथा 'आराध्यमानाम्' इत्येकस्यामेव क्रियायामनेकेषां कर्तृत्वेनाभिसम्बन्धात्तुल्ययोगिता चेत्युभयोरङ्गाङ्गिभावसङ्करः। अनेन च महाराज्याभूमिन्वं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः।

सर्वत इति। अपि च, सर्वतश्चतुर्दिक्षु रटता शब्दं विदधता, कठोरः कर्कशस्वरो यो वायसगणः सकृत्प्रजासमूहस्तेन, स्तुतिपरेण स्तुतिप्रवृत्तेन सता स्तूयमानामिव नूयमानामिव, स्तवप्रवृत्तवत् समन्तात् शब्दविधानात्। स्तुतिपरो हि प्रदक्षिणतया भ्रमन्नुच्चैः स्तुतिशब्दं विधत्ते। इहापि क्रियोत्प्रेक्षा।

स्थूलेति। दग्धो ज्वलितो यः स्थाणुः शाखापर्णरहितस्तरुः तस्य आशङ्कया भ्रान्त्या समारूढैः शरीरारूढैः, गोधा गोधिका, कृकलासः सरट एतेषां कुलैः समूहैरिव, स्थूलस्थूलैः अन्यान्यापेक्षया अत्यन्तस्थूलः शिराजालकैः धमनीसमूहैः, गवामक्षीवेति गवाक्षः 'अदग्गोऽदर्शनातू' इत्यच्, गवाक्षं सञ्जातमस्येति गवाक्षितः तारकादिभ्वादितच् । तेन जालकमयीभूतेन 'जरद्द्रविडधार्मिकाधिष्ठिताम्' इत्यधिकदूरस्थायिन्या क्रियया सम्बन्धः। इह भ्रान्तिमान् जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः। इत आरभ्य पुँल्लिङ्गत्तृतीयेकवचनान्तानि पदानि अग्रेतनस्य 'जरद्द्रविडधार्मिकेण' इत्यस्य विशेषणान्यवगन्तव्यानि।

अलक्ष्मीति। अलक्ष्म्या अध्रिया देव्या समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि सामुद्रिकशास्त्रोक्तानि शुभचिह्नानि तेषां स्थानैरिव, विस्फोटकाः शीतलाप्रकोपजाः प्रसिद्धाः तेषां व्रणबिन्दुभिः कल्माषितं विचित्रीकृतं सकलं समग्रं शरीरं यत्र तेने। इह जात्युत्प्रेक्षा।

कर्णेति। अपि च, कर्णावतंसे श्रवणालङ्कारस्थाने संस्थापितया न्यस्तया चूडया शिखया कारणेन, रुद्राक्षमालिकां दधानेन धारयतेव, मयूरपिच्छरचितायास्तच्छिखायाः कण्ठपर्यन्तपातित्वेन रुद्राक्षमालावदवगतेरित्याशयः। क्रियोत्प्रेक्षा।

कर छागगण ( बकरे ) भी मानों व्रतालम्बन कर देवी की आराधना करते हों; ओष्ठयुगल निरन्तर स्पन्दित होने के कारण मूषकगण भी मानो जपमें प्रवृत्त होकर देवीकी उपासना करते हों, कृष्ण-चर्म ओढ़ कर हरिणगण भी धरना देकर देवीकी आराधना करते हों, और मस्तकमें प्रज्वलित ( चमकने ) हुए रक्तवर्ण रत्नकी किरणोंके कारण कृष्णसर्पगण भी मानो मस्तक पर मणिप्रदीप धारण कर देवीकी उपासना करते हों—ऐसा प्रतीत होता था। कर्कश-स्वरवाले काकगण (कौवे) भी सर्वत्र काँव काँव करके मानो स्तुति करनेमें प्रवृत्त होकर उसकी आराधना करते थे। वहाँ एक द्रविडदेशीय वृद्ध धार्मिक रहता था। दग्ध-स्थाणु (जले हुए ठूंठ) की आशङ्कासे शरीर पर चढ़े हुए गोह, छिपकली और गिरगिटोंके समूहके समान अत्यन्त-स्थूल शिराओं (मोटी मोटी नसों) के समूहसे व्याप्त होनेके कारण उसके शरीरमे गवाक्ष-जाल (जालीदार खिड़कियां) उत्पन्न हो गए थे। अलक्ष्मी देवीके द्वारा जड़से उखाड़े गए शुभलक्षणोंके रिक्त-स्थानके समान विस्फोटक-व्रण-बिन्दुओं (फोड़ोंके घावके चिह्नों) से उसका शरीर विचित्र हो गया था। कर्णाभरणके स्थानमें रक्खी गई उसकी शिखा वक्षःस्थल पर्यन्त लटकनेके कारण प्रतीत होता था कि वह मानो रुद्राक्ष माल धारण करता था। अम्बिकाके चरणोंमें गिरनेसे उसके काले ललाटदेश पर अंबुर्द-


१. प्रतिशयनैरिव ।
२. रुवता ।
३. शिराजालैर्गोधाम् "गोपालिका, गोधारगृहगोधिका गोधारगोधिका ।
४. लक्ष्मी ।
५. विस्फोटका ।
६. क्वचित् 'इव' शब्दो नास्ति ।