भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 701, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 701

६६४ | कादम्बरी- | [ कथायाम्-

तामेवंवादिनीमाकर्ण्य प्रहर्षरसनिर्भरा मनस्यकरवम्—'अहो ! चन्द्रापीडमुद्दिश्य सुदूरमाकृष्टा खल्वियं मकरकेतुना । यदि च सत्यमेवं कादम्बरीव्याजेन साक्षान्मनोभवचि-त्तवृत्तिः प्रसन्ना२ देवस्य चन्द्रापीडस्य, ततः सहजैः सादरं संवर्द्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः, यौवनेन रतिरससागरतरङ्गैः पातिता रत्नवृष्टिः, यौवनविलासैर्लि-खितं नाम शशिनि, सौभाग्येन प्रकाशिता निजश्रीः, लावण्येनेन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिराल्लब्धः कालो मलयानिलेन, समासादितोऽवसरश्चन्द्रोदयेन, प्राप्त-मनुरूपं फलं४ मधुमासकुसुमसमृद्ध्या, गतो मदिरामददोषो५ गुणताम् , दर्शितं मुखं मन्मथ-

तामिति । एवंवादिनीम् एवंभाषिणीं ताम् आकर्ण्य तस्य वचनं श्रुत्वेत्यर्थः । प्रहर्षभरेण प्रमोदरसेन निर्भरा परिपूर्णा अहम् , उचितसंमिलनोपक्रमादित्याशयः । अकरवम् अकल्पयम् । चन्द्रापीडम् उद्दिश्य लक्षी कृत्यैत्यर्थः । मकरकेतुना मदनेन, सुदूरम् आकृष्टा आकर्षिता । देवस्य चन्द्रापीडस्योपरि कादम्बरी-व्याजेन कादम्बरीं व्याजीकृत्य लक्षी कृत्यैत्यर्थः, साक्षान्मनोभवस्य कामस्य चित्तवृत्तिर्मनोव्यापारो यदि च सत्यमेव तथ्यमेव प्रसन्ना दयापन्ना जाता, ततस्तदा, सहजैः प्राकृतिकैः सादरं संवर्धितैः एतावत्समयपर्यन्तं सयत्नं वृद्धिमुपनीतैः, एतेन गुणान् प्रति चन्द्रापीडस्योपकृतिकरणं ध्वनितम् । अस्य चन्द्रापीडस्य गुणैः रूपशिक्षाचारादिभिः प्रत्युपकृतं प्रत्युपकारः कृतः, सर्वथोचिताया एव समाकर्षणा-दित्याशयः । तथा यशसा कीर्त्या ककुभो दिशो धवलिताः श्वेतीकृताः, भूतले कन्यारत्नभूताया एवाकर्षणा-दित्याशयः । तथा यौवनेन तारुण्येन रतिरसः शृङ्गाररस एव सागरः समुद्रः तस्य तरङ्गः कल्लोलैः रत्न-वृष्टिः मणिवृष्टिः पातिता च्याविता । चन्द्रापीडस्य यौवनविलासैः तारुण्यविभ्रमैः शशिनि नाम शशकलङ्क इत्यभिधेयं लिखितं लिपीकृतम् , एवञ्च कलङ्कवत्तया शशिना ( चन्द्रेण ) कादम्बर्या अनाकर्षणात् , कलङ्कशून्यतया च चन्द्रापीडेनाकर्षणात् शशिनश्चन्द्रापीड एवातिशयश्रेष्ठ इत्याशयः । सौभाग्येन प्रिय-वांल्लभ्येन निजश्रीः स्वसौन्दर्यं प्रकाशिता प्रकटिता, तस्या वाल्लभोयादित्याशयः । इन्दोरिमा ऐन्द-व्यस्ताभिः इन्दुसम्बन्धिनीभिः कलाभिरिव चन्द्रापीडस्य लावण्येन, अमृतं पीयूषं हर्षश्च वृष्टमुत्सृष्टम् , तस्या आकर्षणेनानन्दवर्षणादित्याशयः ।

इह 'यौवनेन रतिरससागरतरङ्गैः रत्नवृष्टिः पातिता' इत्यत्र पदार्थसम्बन्धोऽसम्भवन् कादम्बरीं लक्षी कृत्य चन्द्रापीडोपरि मकरकेतोः चित्तवृत्तेः करुणापन्नत्वं तारुण्याद्वारा रतिरससागरतरङ्गीकरणक-मणिवृष्टिपातनमिवेति साद्यमाक्षिपतिरिति निरङ्गकेवलरूपकेण निदर्शनालङ्कारः सङ्कीर्यते । तथा 'रतिरसे' त्यस्य स्थाने 'भाव' इत्येव पदं पठनीयम् , अन्यथा 'रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणोरपि' इत्युक्त-दिशा तयोः स्वशब्दाभिधानेन दोषस्य वारयितुमशक्यत्वात् । एवं यौवनविलासैः नामलिखनसम्बन्धा-भावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारस्तेन चोक्तरूपो व्यतिरेकालङ्कारो ध्वन्यत इत्यलङ्का-रेणालङ्कारध्वनिः । 'कलाभि' रित्यत्र च पूर्णोपमालङ्कारः ।

तथेति । तथा च किञ्चेत्यर्थः । मलयानिलेन दक्षिणपवनेन चिरात् बहोः कालादनन्तरं कालः समयो लब्धः प्राप्तः परस्परमुचितयोरेव कादम्बरीचन्द्रापीडयोः सम्प्रति यथाशक्त्युद्दीपनसम्भवादित्याशयः । इत्थमपरयोरप्यभिप्रायो ज्ञेयः । समासादितः प्राप्तः । मधुमासश्चैत्रमासस्तस्य कुसुमसमृद्ध्या पुष्पसम्पदा । मदिरामदस्य मद्यपानोत्पन्नमत्तताया दोषः अनुचिते अनुरागोत्पादनरूपो दोषः सम्प्रति गुणतां गतः


उनकी इस प्रकारकी वाणी सुनकर, मैं आनन्दसे परिपूर्ण होकर विचार करने लगी—'कितना आश्चर्य ! चन्द्रापीडके उद्देश्यसे कामदेव इसे बहुत दूर ले गया है। यदि सत्य ही कादम्बरीको उद्देश्य कर साक्षात् कामदेवकी चित्तवृत्ति ही महाराज पर इस प्रकार प्रसन्न हुई है, तब तो उनके स्वाभाविक एवं सावधानतासे सम्वर्द्धित सौन्दर्यादि गुणों ने प्रत्युपकार किया; यशने समस्त दिशाओंको धवलवर्ण कर दिया; तारुण्यने शृङ्गार-रूपी समुद्रकी तरङ्गों द्वारा रत्न-वृष्टि बरसाई; यौवनकी विलासिताने चन्द्रके ऊपर 'शशकलङ्क' यह नाम लिख दिया; सौभाग्यने अपने सौन्दर्यका प्रकाश किया; चन्द्रकी कलाके समान लावण्यने अमृतकी वृष्टि की।' इस प्रकार ही मलयसमीरणको बहुत दिनके बाद अब समय मिलो; चन्द्रोदयको अवसर प्राप्त हुआ; चैत्रमासकी पुष्प-समृद्धिको


१. एवं वदा ।
२. '' मनोभवे चित्तवृत्तिः प्रसक्ता ।
३. विलासैः ।
४. '' मनुरूपफलं, प्राप्त रूपं फलम् ।
५. मदिरास्रदोषः ।