कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 84, कुल 709 में से
संदर्भ में पढ़ेंचण्डालकन्यावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ३५
महीपतेः—“अहो ! विधातुरस्थाने रूप-निष्पादनप्रयत्नः¹। तथाहि⁴, यदि नामेयमात्मरूपोप-हसिताशेषरूपसम्पदुत्पादिता, किमर्थमपगत-स्पर्श-सम्भोग-सुखे कृतं कुले जन्म² । मन्ये च ³मातङ्ग-जाति-स्पर्श-दोष-भयादस्पृशतैयमुत्पादिता प्रजापतिना, अन्यथा कथमियमक्लिष्टता लावण्यस्य । नहिँ करतल-स्पर्श क्लेशितानामवयवानामीदृशी भवति कान्तिः । सर्वथा धिग्विधातारम्⁵ असदृशसंयोगकारिणम् । अतिमनोहराकृतिरपि⁶ क्रूरजातितया⁷ येनेयमसुरश्रीरिव सतत-निन्दित-सुरता रमणीयाऽप्युद्वेजयति’ इति ।
महीपतेः शूद्रकस्य राज्ञः, मनसि चित्ते ( एवं वृत्तिः ) अभूत् उत्पन्ना। तामेव मनोवृत्तिमुपपादयति— अहो ! इति । अहो ! इति वितर्के ‘आहो उताहो किमुत’ इत्यमरः । विधातुर्ब्रह्मणः अस्थाने अपात्रे सौन्दर्यस्य अद्भुतरूपस्य निष्पादने निर्माणे प्रयत्न प्रयासः । अथ स्पष्टीकरोति—तथाहीत्यादिना । नामेति मृदुलामन्त्रणे । यदि आत्मरूपेण स्वीयसौन्दर्येण उपहसिता न्यक्कृता अशेषा समग्र रूपसम्पद् सौन्दर्यसमृद्धिः यया सा तादृशी, इयं चण्डालकन्यका उत्पादिता निर्मिता, (तर्हि) किमर्थं किन्निमित्तम्, अपगते दूरीभूते स्पर्शसम्भोगसुखे संश्लेषसुरतसुखे यस्मात् एवम्भूते कुले अन्त्यजवंशे जन्म उत्पत्तिः कृतं विहितम् तथा च यथेयं सौन्दर्यराशिविधिना निर्मिता तथा उच्चकुले जन्मकरणमपि योग्यमासीद् यथेयं सुन्दरी स्पष्टमुपभोक्तुं च शक्येत ।
राजा एवं विमृश्य निश्चिनोति—मन्ये इति । अत्राहमित्यध्याहार्यः मातङ्गजातेः चण्डालगोत्रस्य ‘मातङ्ग श्वपचे गज’ इति मेदिनी ‘जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः’ इति विश्वः, ‘जातिः स्त्री गोत्रजन्मनोः’ इति मेदिनी च, स्पर्शेन संश्लेषेण (जनितः यः) दोषः अपवित्रता तस्माद् यद्भवं त्रासः तस्मात्, अस्पृश्यता अस्या देहस्पर्शमकुर्वता प्रजापतिना ब्रह्मणा, इयं चण्डालकन्यका, उत्पादिता मरीच्यादिसप्तर्षिवन्मनःसङ्कल्पमात्रेण निष्पादिता इति (अहं) मन्ये जाने इत्यर्थः। अन्यथा उक्तवैपरीत्ये स्पर्शयोग्यत्वे सतीति भावः, इयमेवम्भूता, लावण्यस्य सौन्दर्यस्य अक्लिष्टता अक्षतता कथं स्यात् ? कथमपि नेत्यर्थः । एतदेवोपपादयति—न हीत्यादिना । करतलस्पर्शक्लेशितानां पाणितलसंश्लेषमर्दितानाम् अवयवानां करादीनाम्, ईदृशी एवम्भूता, कान्तिः कमनीयता, न हि भवति न स्यात् ।
सर्वथेति । असदृशयोः व्यधिकरणत्वेन मिथो विरुद्धयोश्चण्डालत्वात्यन्तमनोहराकृत्योः संयोगम् एकत्र सम्बन्धं कर्तुं शीलं यस्य तं विधातारम् अस्या निर्माणकर्त्तारं ब्रह्माणं धिक् निन्दामि ‘धिक धिक’ इति पाठे, अत्यधिकं निन्दामीत्यर्थः, येन असदृशसम्बन्धविधानेन हेतुनां इयं चण्डालकन्यका मनोहरा चित्ताकर्षिणी आकृतिः स्वरूपं यस्याः सा एवम्भूताऽपि असुरश्रीरिव दैत्यलक्ष्मीव सतत निरन्तरं निन्दितं धर्मशास्त्रकृद्भिर्जुगुप्सितं सुरतसम्भोगो यस्यां सा, पक्षे—सततम् अजस्रं निन्दिता तिरस्कृता
धनुष की लचीली डण्डी के समान मुट्ठी में आने योग्य थी । वह अपनी अलकों से ऐसी शोभित हो रही थी मानो अलकापुरी के वैभव में निवास करनेवाली भगवान् कुबेर की राजलक्ष्मी हो ।
उसे देखकर राजा चकित हो उठा और मन ही मन विचार करने लगा—कितने आश्चर्य की बात है कि ऐसे अयोग्य स्थान में विधाता ने ऐसी रूप-रचना का आखिर इतना प्रयत्न किया ही क्यों ? और यदि अपनी सुन्दरता से सम्पूर्ण सौन्दर्य की खिल्ली उड़ानेवाली इस सौन्दर्य मूर्ति कन्या की रचना ही की तो इसे ऐसी जाति में क्यों उत्पन्न कर दिया कि यह सम्भोग की तो बात ही क्या छूने योग्य भी न रह गयी ।
मैं तो समझता हूँ कि चण्डाल-जाति के स्पर्श दोष से भयभीत होकर इसके निर्माण-काल में ही विधाता स्वयं इसके छूने में हिचक उठे और बिना हाथ लगाये ही इसकी रचना कर डाली । नहीं तो इसकी सुन्दरता कदापि इतनी अछूती न होती । हाथ के स्पर्श से दूषित अङ्गों में ऐसी निर्मल कान्ति कैसे सम्भव हो सकती है ! अर्थात् इसकी रचना में विधाता के हाथों की छाप तो है ही नहीं क्योंकि विधाता के हाथों की रचना इस प्रकार सर्वथा दोषमुक्त होती ही नहीं (विधि प्रपञ्च गुन अवगुन साना) अतः यह निश्चय ही उसकी मानसी सृष्टि है ।
१. सौन्दर्य...रूपनिष्पादनप्रयत्नः ।
२. अस्या जन्म ।
३. मनसोत्पादिता ।
४. तथाहि ।
५. धिग्विग् विधातारम् ।
६. मनोहरा... ।
७. क्रूरजातिता ।