भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 86, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 86
शुकवर्णनम् ]चन्द्रकला-विद्योतिनीसहिता ।३७

स्वयञ्च कर्त्ता, परिहासालापपेशलः, वीणा-वेणु¹-मुरजप्रभृतीनां वाद्यविशेषाणामसमः श्रोता, नृत्य²प्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रणयकलह³-कुपित⁴-कामिनी-प्रसादनोपायचतुरः, गज-तुरग-पुरुष-स्त्री-लक्षणाभिज्ञः, सकलभूतल-रत्नभूतोऽयं वैशम्पायनो नाम शुकः । सर्वरत्नानाञ्च⁵ उदधिरिव देवो भाजनमिति⁶ कृत्वैनमादायास्मत्स्वामि-दुहिता देवपादमूलमायाता, तदयमात्मीयः क्रियतामित्युक्त्वा नरपतेः पुरो निधाय पञ्जर-मसावपससार⁷।

अपसृते च तस्मिन्⁸ स विहङ्गराजो राजाभिमुखो भूत्वा समुन्नमय्य⁹ दक्षिणं चरणमतिस्पष्ट-वर्ण¹⁰-स्वर-संस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यार्यामिमां पपाठ—

हासोऽन्येषां प्रियवचनैर्हसनं तस्य आलापेषु रसबोधकपदप्रयोगेषु पेशलः दक्षः । वीणा, वेणुः सुषिरम्, मुरजम् आनद्धम्, आदिपदाद्वादनं कांस्यतालादि परामृश्यते, एतेषाम् असमः निरुपमः अद्वितीय इत्यर्थः, श्रोता आकर्णनेन तारतम्यगुणदोषविवेक इत्यर्थः, नृत्तं ताललयाश्रितं तस्य प्रयोगदर्शने प्रयुज्यमानस्य नृत्यस्यावलोकने निपुणः पेशलः अवलोकनेनोत्कृष्टापकृष्टनिर्वाचक इत्यर्थः ।

चित्रकर्मणि आलेख्यकलायां प्रवीणो निपुणः द्यूतव्यापारे दुरोदरव्यापारे प्रगल्भः कुशलः प्रतिभा-युत इत्यर्थः । प्रणयकलहेन स्नेहविषयविवादेन कुपितानां क्रोधं प्राप्तानां कामिनीनां प्रमदानां प्रसादनो-पायेषु सान्त्वनानिमित्तभूतप्रपञ्चे चतुरोऽभिज्ञः । गजा भद्रजातीयाः तुरगाः शालिहोत्रप्रतिपादितदेव-मण्यादयः, पुरुषा धीरोदात्तादयः स्त्रियः पद्मिन्यादयः तासां लक्षणेषु सामुद्रिकोक्तेषु अभिज्ञो निपुणः। सकलभूतले समस्तपृथिवीतले रत्नभूतः अयुत्कृष्टमणिः । अयं पुरोऽवलोक्यमानः वैशम्पायनो नाम वैश-म्पायनेतिसंज्ञकः शुकः कीरः सर्वरत्नानां सर्वोत्कृष्टवस्तूनाम् उदधिः सागर इव देवो भवान् भाजनमाग्रयः इति कृत्वा एतन्मनसि विचार्य, अस्मत्स्वामिनो वद्यप्रभागरय पत्युः दुहिता एषा कन्यका एनं शुकम् आदाय गृहीत्वा देवपादमूलं भवच्चरणान्तिकम् आयाता आगता, तत् तस्मात् कारणात् अयं शुकः आत्मीयो ग्रहणेन स्वीयः क्रियतां विधीयताम् इति पूर्वोक्तम् उक्त्वा अभिधाय नरपतेः राज्ञः ( शूद्रकस्य ) पुरः अग्रे निधाय स्थापयित्वा पञ्जरं पञ्जरग्रहणस्थानम्, असौ पुरुषः अपससार दूरीभूतवान् ।

अपसृत इति । तस्मिन् पुरुषे अपसृते दूरीभूते सति स पूर्वप्रतिपादितो विहङ्गराजः राज्ञः शूद्रकनृपतेः अभिमुखः सम्मुखो भूत्वा, दक्षिणम् सव्येतरं चरणं पादम् उन्नमय्य उत्तोल्य । दृश्यते हि लोके ब्राह्मणा आशीर्वादप्रदाने दक्षिणहस्तोत्तोलनं कुर्वन्ति पूर्वमयञ्च पुण्डरीकनामा ब्राह्मण आसीदिति तत्संस्कारानुसा-रेण जयशब्दोच्चारणे दक्षिणचरणोत्तोलनं कृतवान् चरणपदोपादानन्तु एकत्रैव करचरणोभयरूपत्वं पक्षिणा-मिति नासङ्गतिः । अतिस्पष्टाः सुव्यक्ताः, वर्णा अकारादि, स्वरा उदात्तादयः तेषां संस्कारः परिपाकः व्याक-रणशुद्धिरिति यावत्, यस्यां सा तथा तया । एतेनान्यशुकाद्यपेक्षयाऽस्य वैलक्षण्यं प्रदर्शितम्, एवम्भूतया गिरा वाचा राजानमुद्दिश्य नृपं निमित्तीकृत्य कृतजयशब्दः विहित 'जय' इति शब्दः इमाम् अग्रे प्रति-

हैं और यह उनकी रचना में भी प्रवीण है । यह कुशल विदूषक भी है, वीणा, वेणु और मुरज इत्यादि बाजों के सुनने का रसिक और नृत्य-प्रयोगों के देखने में अत्यन्त चाव रखने वाला भी है। यह चित्र भी बनाना जानता है और द्यूत खेलने में तो पटु ही है । प्रेम-व्यापार में रूठी हुई मानिनियों को मनाकर प्रसन्न कर देने के उपायों का ऐसा पण्डित तो मिलना ही कठिन है। कहाँ तक इसकी विशेषतायें निवेदन करूँ यह हाथी, घोड़ों, पुरुषों और स्त्रियों के लक्षणों का भी अद्भुत पारखी है। सचमुच यह पृथ्वी का एक विशिष्ट रत्न है और श्रीमान् ही समुद्र के समान सभी रत्नों के संग्रह करने वाले एकमात्र उचित स्थान हैं इसलिये मेरे स्वामी की यह पुत्री इसे लेकर आपके चरणों में आयी है । इसे अपनाने की कृपा करें।' यह कहकर उसने पिञ्जड़ा राजा के सामने रख दिया और स्वयं हट गया ।

उसके हट जाने पर उस पक्षिराज ने अपना मुख राजा की ओर कर लिया, दाहिने पैर को उठा लिया, अत्यन्त स्पष्ट वर्गों और स्वरों में सुलझी हुई वाणी से 'जय' शब्द का उच्चारण किया और राजा को लक्ष्य करके यह आर्या छन्द सुनाया-


१. मुरजादीनाम् । २. नृत्त । ३. प्रणयकुपित । ४. कामिनोजन । ५. सर्वरत्नानाममुदधिरिव ६. भाजनमद्यः । ७. पञ्जरमपससार । ८. तस्मिन् विहङ्गमराजः । ९. उन्नम्य । १०. वर्णसंस्कारया

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 86, कुल 709 में से · BharatKosha