कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 20, कुल 56 में से
संदर्भ में पढ़ें१६ कामकलाविलासः वाक् वर्ण-पद-मन्त्ररूपा, अर्थः कला-तत्त्व-भुवनात्मा, एत- द्रूपत्वं कुतः? - प्रकाशविमर्शात्मकशब्दार्थाभ्यामेव षडध्वा- त्मकसर्वप्रपञ्चोत्पत्तिश्रवणात्, अत एव नित्ययुक्तौ निरन्तरसं- सक्तौ, नहि घटपटयोरिव कादाचित्कः संबन्धः, तथा सति सर्वोत्पत्तिप्रसंगः। सृष्टिस्थितिलयभेदौ - सृष्टिः शिवादिक्षिति- पर्यन्ततत्त्वजालाविर्भावः, स्थितिः तत्परिपालनं, लयस्तेषां स्वात्मसात्कारः एवं-भूतो भेदो ययोस्तौ। स्वात्मत्वं तु एतेषां त्रयाणां, तथा च अभिनवगुप्तपादाः 'स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ।' इति। परस्परं शक्तिशिवमयो प्रकाशविमर्शस्वरूपौ, उभ- योरेकत्वात् वह्निदाहकत्ववत् तत्त्वान्तरं न भवति इत्यर्थः। अभियुक्तोक्तिश्च 'तादात्म्यमनयोर्नित्यं वह्निदाहकयोरिव ।' इति। एतौ पूर्वोक्तौ प्रकाशविमर्शौ त्रिधा त्रिप्रकारेण संस्थितौ, विभक्तौ पृथग्भूतौ। केन? इत्याह - त्रिबीजरूपे- णेति, वाग्भव-कामराज-शक्तिबीजात्मकत्वेन इत्यर्थः। अय- मर्थः - बिन्दुत्रयसमष्टिभूतकामकलाक्षररूपिणी महात्रिपुर- सुन्दरी सर्वोपास्या इति ॥ १२ ॥ इतः परं वाग्भवादिखण्डत्रयान्तर्गतवस्तुविशेषवर्णनद्वारा श्रीपञ्चदशाक्षरीविद्याम् उद्धर्तुम् उपक्रमते