कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 28, कुल 56 में से
संदर्भ में पढ़ें२४ कामकलाविलासः भाविता संजायमाना, एतदेवाह - स्पष्टा पश्यन्त्यादित्रिमातृ- कात्मा इति, स्पष्टा प्रथमोत्पन्नत्वेन विवक्षिता विषयिणी पश्यन्तीति उच्यते आदिशब्देन मध्यमा वैखरी च, सैव वैखरी नाम अभिलापरूपिणी पञ्चदशाक्षरराशिवमयी सर्ववै- दिकलौकिकशब्दात्मिका शक्तिरित्युच्यते । तथा च सुभ- गोदयवासनायाम् ‘परा भूर्जन्म पश्यन्ती वल्लीगुच्छसमुद्भवा । मध्यमा सौरभा वैखर्यक्षमाला जयत्यसौ ॥’ एवंरूपत्रिमातृकात्मिका सैव चक्रतां याता - त्रिखण्डात्मकच- क्रकमयित्राता इत्यर्थः । एतदेवाह - चक्रस्य इति, चक्रस्य त्रैलोक्यमोहनादि-बैन्दवान्तनवावरणात्मकस्य सुन्दर्यधिष्ठा- नभूतस्य, महेश्वर्यास्तदधिष्ठात्र्याः सुन्दर्याश्च भेदलेशः ईषद्भे- दोऽपि बुधैर्महेश्वरैर्न भाव्यते न अनुभूयते, कुतः ? - श्रीसु- न्दरीरूपत्वात् श्रीचक्रस्य । पुनरपि अनयोस्तादृग्भेदम् आचष्टे - अनयोः सूक्ष्माकारा इत्यादिना, अनयोः सूक्ष्म- रूपयोश्चक्रदेवतयोः - सूक्ष्मरूपत्वं नाम अपरिच्छिन्नत्वमेव, तत्र श्रीचक्रस्य सूक्ष्मरूपेण अवस्थानं बिन्दात्मना, बिन्दोश्च अपरिच्छिन्नत्वं ‘बैन्दवे परमाकाशे’ इत्यादिना प्रपञ्चित- मेव । देवताया अपि ‘विद्यापि तादृगात्मा’ इत्यादिना अभिहितमेव । तथा स्थूलयोश्चक्रदेवतयोश्च, अत्र स्थूलत्वं