कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 30, कुल 56 में से
संदर्भ में पढ़ें२६ कामकलाविलासः चक्रस्य नवयोन्यात्मकस्य, मध्यं मध्येभवं, बिन्दुतत्त्वं बिन्दुस्वरूपं पूर्वमेव व्याख्यातम् । इदं स्वसाक्षात्कृतं पराम- यमेव पराशक्तिस्वरूपमेव इत्यर्थः । एतदेव बिन्दुतत्त्वं यदा विकासभावम् एति तदा त्रिकोणचक्रम् उदेति इत्याह-उच्छूनं तच्च यदा इति, यदा यस्मिन् काले प्राणिनाम् अदृष्टवशात् उच्छूनं, तच्च - बैन्दवमपि उच्छूनं संजातविकासं भवति, तदा त्रिकोणरूपेण - अनुत्तरानन्देच्छासंघट्टरूपेण परिणतं, त्रिको- णाकारं भवति इत्यर्थः । एतत् - त्रिकोणचक्रं, पश्यन्त्यादि- त्रितयनिदानं - पश्यन्ती-मध्यमा-वैखरीप्रमुखशक्तित्रयोत्प- त्तिकारणमित्यर्थः । तथाह ' इच्छाशक्तिस्तथा वामा पश्यन्तीवपुषा स्थिता । ज्ञानशक्तिस्तथा ज्येष्ठा मध्यमा वागुदीरिता ॥ ऋजुरेखामयी विश्वस्थिता प्रथितविग्रहा । तत्संसृतिदशायां तु बैन्दवं रूपमास्थिता ॥ प्रत्यावृत्तिक्रमेणैव शृङ्गाटवपुरुज्ज्वला । क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥' इति । त्रिबीजरूपं च इति, - त्रिबीजानि त्रिखण्डात्मकानि वाग्भव-कामराज-शक्तिबीजानां रूपं यस्य तत् ॥ २२ ॥ ततः श्रीभट्टारिकायामेव बिन्दुतत्त्वम् ऊर्ध्वाधोमुखनव- योन्यात्मकश्रीचक्रमभवत्, इत्याह