कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 33, कुल 56 में से
संदर्भ में पढ़ेंश्रीमत्पुण्यानन्दाचार्यविरचितः २९ त्मानः तेषां भावः तत्त्वं तत्स्वरूपा ये वर्णा वाग्भवादय- स्तदात्मिका । तथा रहस्याम्नाये ' बिन्दुत्रयात्मकं स्वात्मशृङ्गाटं विद्धि सुन्दरम् । मिश्रं शुक्लं च रक्तं च पुराणं प्रणवात्मकम् ॥ रेखात्रयावगन्तव्यं संविन्मात्रं शिवात्मकम् । ' सेयं त्रिकोणरूपम् आपन्ना चिदानन्दघनरसपरमार्था सक- लाम्नायसारभूता, विश्वाहंभावभावनाशालिभिर्महायोगिवरै- रात्मसाक्षात्त्वेन अनुभूयमाना, त्रिगुणा इच्छा-ज्ञान-क्रिया- शक्तिमयी, एवं तथा, अत एव सर्वजगन्निर्मात्री एका । तथा च वचनम् ' अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते । त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् ॥ ' इति ॥ २६ ॥ इतः परं विलसनरूपायाः पश्यन्त्या अपि नवयोनिच- क्रात्मना नवात्मकत्वमाह ———————————— ............'तदन्या वामादिव्यष्टिमातृसृष्ट्यात्मा ।