कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 36, कुल 56 में से
संदर्भ में पढ़ें३२ कामकलाविलासः अयमर्थः - मित्रावरुणसदनात् वायुनिरोधनेन स्वाधिष्ठाना- दिकमलभेदपुरःसरं द्वादशान्तारविन्दासनस्थपरमशिवाङ्कम् उपसर्पन्ती महामातृका कुण्डलिनी बहुविधनादात्मिका या अनुभूयते, सा समाधिसमधिगतसर्वार्थैर्महामाहेश्वरैः स्वात्म- त्वेन मन्यते । नवनादमयी इति, - चिणीति प्रथमः, चिणि- चिणीति द्वितीयः, घण्टानादस्तृतीयः, शङ्खनादश्चतुर्थः, पञ्चमस्तन्त्रीनादः, षष्ठस्तालनादः, सप्तमो वेणुनादः, अष्टमो भेरीनादः, नवमो मृदङ्गनादः । भूतलिप्याख्या - भूताश्च ते लिपयश्च भूतलिपयः, अत्र लिपीनां भूतत्वम् चेष्टाविशेषाक्ष- रन्यासाभिव्यङ्ग्यत्वम्, तच्च कल्पनामात्रमेव - अक्षराणां तेजोरूपशक्त्यात्मकत्वात् तेषामाख्या अभिधा यस्याः, सूक्ष्म- रूपा हि मध्यमा स्थूलरूपायाः कारणभावम् आपन्ना एका एव, इत्यत आह - आद्या कारणमित्यादि, आद्या पूर्वोक्ता सूक्ष्मा कारणं - प्रथमोद्भवात्, अन्या स्थूला कार्यं - तज्जन्य- त्वात्, यतः तस्मात् कारणात् अनयोः सूक्ष्म-स्थूलयोः कार्यकारणभावः, ततो हेतोः - तेन कारणेन, इयं स्थूला सैव सूक्ष्मा शक्तिरेव, नहि भेदः - भेदो नास्त्येव । ननु कथम् अभेदे कार्यकारणभावः ? इत्यत्राह - तादात्म्यमिति, तादा- त्म्यं - भेदाभेदरूपं, हेतुहेतुमत् - जन्यजनकरूपम्, अभी-