कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 41, कुल 56 में से
संदर्भ में पढ़ेंश्रीमत्पुण्यानन्दाचार्यविरचितः ३७ भूबिम्बत्रयमेतत् पश्यन्त्यादित्रिमातृविश्रान्ति ॥ ३४ ॥ तानि वृत्तानि - मन्वश्रोपरि अष्टदलपद्मोपरि षोडशदल- पद्मोपरि च स्थितानि, बिन्दुत्रयं - पूर्वोक्तरक्तशुक्रमिश्रात्मकं, तन्मयं यत् तेजस्त्रितयं - सोम-सूर्याग्निरूपं, तद्विकारस्तन्मयानि इत्यर्थः । तत्र वृत्तस्थतेजस्त्रयात्मकत्वकथनेन सोमसूर्यानलत्रि- खण्डमयत्वं चक्रस्योक्तं, तद्विकारश्चेति तानि वृत्तानि, 'वेदाः प्रमाणम्' इति-वत् द्रष्टव्यम् । भूबिम्बत्रयम् - अणिमादि- ब्राह्म्यादि-सर्वसंक्षोभिणीमुद्रादिशक्तिकदम्बकवासनाभूतं, पश्यन्त्यादित्रिमातृविश्रान्ति - पश्यन्ती-मध्यमा-वैखरीशक्तय एतावत्पर्यन्तं विजृम्भमाणाः त्रिकोणादि-भूपुरपर्यन्तश्री- चक्रात्मना चकासत इत्यर्थः । एतच्च 'आत्मनः स्फुरणम्' इत्यारभ्य 'वैखरी विश्वविग्रहा' इत्यन्तेन ग्रन्थजालेन सम्यक् ईरितम् ॥ ३४ ॥ एवं 'मध्यं चक्रस्य स्यात्' इत्यादि उपक्रम्य 'पश्यन्त्या- दित्रिमातृविश्रान्ति' इत्यन्तं श्रीमहात्रिपुरसुन्दर्याः श्रीचक्रं सम्यक् निरूप्य, अनन्तरं 'अणिमादिभूतयोऽस्याः' इत्यन्तं तस्या आवरणचक्रान्तर्गतशक्तिनिकुरम्ब-तन्निकटस्थितश्रीगु- रुमण्डलमपि श्रीदेव्यवयवपरिणतिरूपमेव, इत्याह