कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 46, कुल 56 में से
संदर्भ में पढ़ें४२ कामकलाविलासः भूतः परमशिव एव सकलतन्त्रं समवतारयत्, इति । एवं च तत् मिथुनं कामकामेश्वरीरूपं - मित्रेश्वरी श्रीमदूर्ध्वदीपनाथः, वज्रेश्वरी ज्येष्ठनाथः, भगमालिनी मित्रदेवनाथः, एवमादि- मिथुनत्रयात्मना दिव्य-सिद्ध-मानवौघादिक्रमरूपेण विततं मिथुनत्रयं विसृतमित्यर्थः ॥ ३९ ॥ इतः परम् आवरणदेवतास्वरूपभावौ वर्णयति । वसुकोणनिवासिन्यो यास्ताः संध्यारुणा वशिन्याद्याः । पुर्यष्टकमेवेदं चक्रतनोः संविदात्मनो देव्याः ॥४०॥ वसुकोणनिवासिन्यः - सर्वरोगहराख्यचक्रनिवासशीलाः या वशिन्याद्या अष्ट शक्तयः पूर्णाहंभावानन्ददानसमर्थाः, कथमत्र रोगहरत्वं नाम पूर्णाहंभावप्रदत्वमेव 'अपूर्णमन्यता व्याधिः कार्पण्यैकनिधानभूः । ' इत्युक्तेः । एवं-भूताः ताः संध्यारुणाः अरुणाकारा भासन्ते इत्यर्थः । अत एव इदमष्टकोणचक्रं, संविदात्मनः - संवित् ज्ञानमेव आत्मा स्वरूपं यस्याः सा