कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 51, कुल 56 में से
संदर्भ में पढ़ेंश्रीमत्पुण्यानन्दाचार्यविरचितः ४७ आधारनवकस्था नवचक्रत्वेन परिणतिं याताः । नवनाथशक्तयोऽपि च मुद्राकारेण ताश्चक्रे ॥ ४७ ॥ त्रिखण्डया सह त्रिखण्डाख्यमुद्रया साकं, समुच्छ्रिताः सम्यक् उच्छ्रिताः -- सर्वोत्कर्षेण वर्तमानाः, आदिमहीगृह- वासाः - आदिमचतुरश्रनिलयाः, भासा कान्त्या, बालार्क- कान्तिभिः तरुणारुणरुचिभिः, सदृशाः तुल्याः, संविन्मय्यः चिद्धननिष्ठा इत्यर्थः । एतास्तु मुद्राः चतुरश्रादिबैन्दवान्त- नवचक्राधिष्ठाननायिका इति परमशिवेन प्रपञ्चिताः । एतदेव विवृणोति आधारेत्यादि, आधारनवकं - मूलाधार-स्वाधि- ष्ठान-मणिपूरकानाहत-भ्रूमध्य-विशुद्धि-लम्बिकाज्ञा-बिन्दुरूपं यस्या उपासकरूपिण्याः संबन्धि, येन हेतुना नवचक्रत्वेन बैन्दवात्मना परिणतेन आकारेण, नवनाथशक्तयः नवमुद्रा- कारेण, परिणता जाता इत्यर्थः ॥ ४६ ॥ ४७ ॥ *मोचयन्ति ग्रहादिभ्यः पाशौघान्द्रावयन्ति च । मोचनं द्रावणं यस्मान्मुद्रास्ताः परिकीर्तिताः ॥