कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 6, कुल 56 में से
संदर्भ में पढ़ें२ कामकलाविलासः रीरूपौ आदौ आचक्षते । सकलेत्यादि, सकलानां भुवनानाम् उदयः सर्गः, स्थितिः रक्षा, लयो नाशः, एतत् त्रितयं निरो- धानुग्रहयोरुपलक्षणम्, एतत्पञ्चविधकृत्यप्रचुरा या लीला तया विनोदनं क्रीडनं तस्मिन् उद्युक्तो जागरूकः, मयट् अत्र प्राचुर्यार्थे विहितः । एवं च सति जगद्व्यतिरिक्तलक्षणं ब्रह्मस्वरूपं कीदृशम् ? इत्याकाङ्क्षायाम् आह - अन्तर्लीनवि- मर्श इत्यादिना, विमृश्यते परामृश्यते इदमिति विमर्शः प्रपञ्चः, इदमित्येवं परमात्मना सृष्टस्य जगतः प्रसिद्धः परा- मर्शः, एवंभूतो यो विमर्शः प्रपञ्चः अन्तर्लीनोऽन्तर्गतो यस्य स अन्तर्लीनविमर्शः । तदयमत्रार्थः - स्वात्मसात्कृताखिलप्र- पञ्चः परिपूर्णांहंभावभावनागर्भितः, अथ वा जगदुत्पत्तिस्थि- तिलयहेतुभूताकृत्रिमाहमिति परामर्शो विमर्शः । तथा च नागानन्दाः ' विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्व- संहारेण वा अकृत्रिमाहमिति विश्वस्फुरणम्, तस्य अन्तर्लीनत्वं नाम अन्तर्मुखत्वम् ।' तथा च अयमर्थः - अन्तर्लीनः अन्तर्मुखो विमर्शः पूर्णाहं- भावो यस्य इति, तत्तादृशपरब्रह्मणः परमेश्वरस्य प्रकाशैक- स्वभावत्वं सर्वस्मात्परत्वं च आह - प्रकाशमात्रतनुः इति, अत्र प्रकाशत्वं नाम - इच्छामि जानामि करोमि इति उत्तमपुरुषा-