कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 8, कुल 56 में से
संदर्भ में पढ़ें४ कामकलाविलासः चरबीजं - भाविनोः संपत्स्यमानयोः चराचरयोः स्थावर- जङ्गमयोर्बीजं योनिः कारणमित्यर्थः । ननु शिवस्य यथा जगन्निर्मातृत्वं शक्त्या विना न संगच्छते, एवं पराशक्तेरपि परमशिवेन विना कारणत्वं न भवेत् इति, तत्कथमुच्यते भाविचराचरबीजम् इति ? अत आह - शिवरूपविमर्शनिर्म- लादर्श इति, शिवस्य स्वरूपम् अहमित्येवमाकारं तस्य विमर्शः परामर्शनम् अहमित्येवं-रूपं ज्ञानं तस्य प्रकाशने निर्मलादर्शः सम्यक्प्रकाशनचतुर इत्यर्थः । यथा कश्चित् राजा अतिसु- न्दरः स्वात्माभिमुखस्थितस्वच्छादर्शतले स्वात्मप्रतिबिम्बं सम्यक् प्रसमीक्ष्य तत्प्रतिबिम्बम् अहमिति जानाति, एवं परमेश्वरोऽपि स्वाधीनभूतां स्वात्मशक्तिं सम्यक् अवलोक्य स्वस्वरूपम् अवगच्छति ॥ २ ॥ परिपूर्णोऽहम् इति विमर्शमेव ब्रह्म वदन्ति केचन तत्कथ- मुच्यते - सविमर्शकं ब्रह्म ? इत्यत आह स्फुटशिवशक्तिसमागम- बीजाङ्कुररूपिणी पराशक्तिः । अणुतररूपानुत्तर- विमर्शलिपिलक्ष्यविग्रहा भाति ॥ ३ ॥