कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 118, कुल 353 में से
संदर्भ में पढ़ें५ अध्याये ] दशनच्छेदप्रकरणम्। १११
'गङ्गायमुनयोरित्येके, इति वशिष्ठः, अयमेव शास्त्रकृतां प्राधान्ये- नाभिप्रेतः, तत्र भवा मध्यदेश्याः, शुच्युपचाराः सुरते शुचिसमुदाचा- राः, आर्यप्रायतवात्, चुम्बनादित्रयं द्वेष्टुं शीलमासाम्, आलिङ्गनमि- च्छन्ति, प्रहणनेषु मध्याः ॥ २१ ॥
बाह्लीकदेश्या आवन्तिक्यश्च ॥ २२ ॥
बाह्लीकदेश्याः=उत्तरापथिकाः, आवन्तिक्यः=उज्जयिनीदेशभवाः, ता एवापरमालव्यः, चुम्बनादिद्वेषिण्यः ॥ २२ ॥
पूर्वाभ्यो विशेषमाह—
चित्ररतेषु त्वासामाभिनिवेशः ॥ २३ ॥
चित्ररतेष्विति । चित्ररतानि वक्ष्यन्ते, तेष्वभिनिवेशोऽतिप्रीतिकर- त्वात् ॥ २३ ॥
परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहणन- साध्या मालव्य आभीर्यश्च ॥ २४ ॥
मालव्य इति । पूर्वमालवभवाः, परिष्वङ्गचुम्बनादीनि प्राधान्येने- च्छन्ति, क्षतविवर्जिताः तोदन्तु नखदन्ताभ्यामिच्छन्ति, प्रहणनसाध्याः प्रहणनेन जातरतयः, आभीर्य इति । आभीरदेशः श्रीकण्ठकुरुक्षेत्रादि- भूमिः, तत्र भवाः ॥ २४ ॥
सिन्धुषष्ठानां च नदीनामन्तराळीया औपरिष्टिकसात्म्याः ॥२५॥
सिन्धुषष्ठानां चेति । सिन्धुनदः षष्ठो यासां नदीनां, तद्यथा- विपाट् शतद्रुरिरावती चन्द्रभागा वितस्ता चेति पञ्चनद्यः, तासाम- न्तरालेषु भवाः, औपरिष्टिकसात्म्या इति । सत्यपि परिष्वङ्गचुम्बना- दौ मुखे जघनकर्मणा प्रीयन्त इत्यर्थः, खरवेगाः प्रीयन्त इति भावः॥२५॥
चण्डवेगा मन्दसीत्कृता आपरान्तिक्यो लाट्यश्च ॥२६॥
आपरान्तिक्य इति । पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवाः, अत्रत्यैः किलार्जुनसकाशाद्विष्णोरन्तःपुरमाच्छिन्नमिति, लाट्यश्चे- ति । अपरमालवात्पश्चिमेन लाटविषयः, तत्र भवाः चण्डवेगाः, म- न्दसीत्कृता इति । क्षतानि मन्दं च प्रहारं सहन्त इत्यर्थः, तदुङ्ग- वत्वात् सीत्कृतस्य ॥ २६ ॥
दृढप्रहरणयोगिन्यः खरवेगा एवापद्रव्यप्रधानाः स्त्रीरा- ज्ये कोशलायां च ॥ २७ ॥
स्त्रीराज्य इति । बङ्गदेशात्पश्चिमेन स्त्रीराज्यं तत्र, कोशलायां-