कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 128, कुल 353 में से
संदर्भ में पढ़ें६ अध्याये ] संवेशनप्रकरणम्। १२१
ऊर्ध्वावूरू व्यत्यस्येदिति। उत्तानं वामं दक्षिणतो नयेद्, दक्षिणं वामतः, पीडितकं जघनपीडनात् ॥ २९ ॥
जङ्घाव्यत्यासेन पद्मासनवत् ॥ ३० ॥
जङ्घाव्यत्यासेनेति। उत्ताना नायिका दक्षिणपादं वामे स्वोरुमूले विदध्याद्, वामं च दक्षिणे, पद्मासनमिति प्रतीतम् ॥ ३० ॥
पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकमाभ्यासिकम् ॥३१॥
पृष्ठमिति। यन्त्रमविश्लिष्य; पूर्वकायेन परावृत्तस्य नायकस्य पृष्ठमुपगूहमानायाः परावृत्तकम्, पराङ्मुखेन नायकेन संप्रयोगाद्, उपलक्षणं चैतत्, पृष्ठमुपगूहमानस्य पराङ्मुख्या परावृत्तकम्, आभ्यासिकं, सहसा कर्तुमशक्यत्वाद्, उभयकायं परिवृत्य; संविष्टायाः पृष्ठमुपगूहमानस्य पराङ्मुख्या परावृत्तकमाभ्यासिकमर्थोक्तम् ॥ ३१ ॥
एते संवेशनप्रकारा न चित्राः, लोके हि स्थले पृष्ठतः पार्श्वतो वा शयनं प्रतीतंत, ततोऽन्यच्चित्रं, तदेतैरुपलक्षयेदिति दर्शयन्नाह—
जलं च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगांस्तुनुपलक्षयेत् तथा सुकरत्वादिति सुवर्णनाभः ॥ ३२ ॥
जले चेति। चकारात्स्थले च, तत्राप्सु क्रीडायां कूले शिरो निधाय; संविष्टयोः संवेशनात्मकोडपि यः स्थलाभावाच्चित्रयोगस्तं संपुटेन परावृत्तकेन चोपलक्षयेद्, उपविष्टस्य नायकस्योपवेशनात्मकैस्तैः सर्वैरेव प्रकारैः, ऊर्ध्वस्थितायाः स्थितात्मकः स्थले शयनाभावाद्, चित्रो योगस्तं शूलाचितके, तथा सुकरत्वादितिः तैः प्रकारैः संयोगस्याप्सु सौकर्यात्॥३२॥
वार्तं तु तत् शिष्टैरपस्मृतत्वादिति वात्स्यायनः ॥ ३३ ॥
वार्तं त्विति। तथा सुकरत्वादिति सत्यं वार्तं तु तद्, असारमित्यर्थः। शिष्टैरपस्मृतत्वादिति। स्मृतिकारैर्निषिद्धत्वादित्यर्थः, तथा च गौतमीयवचनम्—‘अप्सु मिथुनसंयोगे नरक, इति, प्रायश्चित्तविधाने भार्गववचनम्—
‘रेतः सिक्त्वा जले चैव कृच्छ्रं चान्द्रायणं चरेद्’ इति,
तस्मात्स्थलप्रयोज्यमेव चरेत् ॥ ३३ ॥
संवेशनप्रकारास्त्रयोदशं प्रकरणम् ॥
प्रकरणसम्बन्धमाह—
अथ चित्ररतानि ॥ ३४ ॥
अथेति। संवेशनप्रस्तावे तद्विशेषत्वात्स्थलप्रयोज्यानीत्युच्यन्ते॥३४॥
१६ का० सू०