कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 141, कुल 353 में से
संदर्भ में पढ़ें१३४ । सटीक कामसूत्रे । [ २ अधिकरणे,
स्वाभिप्रायाद्वा विकल्पयोजनार्थिनी नायककुतूहलाद्वा ॥ १ ॥
नायकस्येति । संतताभ्यासादिति । रतस्य पौनःपुन्येनानुष्ठानात्, परिश्रमं सर्वाङ्गिकं समं, रागस्य चानुपशममशान्तिमुपलभ्य; तत्राप्यनुमता, तेनेति । नायकेन, अनुज्ञाता हि योषिद्विसदृशमाचरन्ती नित्रपैव स्यात्, तमधोऽवपात्य=नायकमधस्तात्कृत्वा, एवं हि पुरुषवदाचरितं, तेन साहाय्यं सहायकर्म प्रतिपद्येत कार्यस्यानिवृत्तत्वात्, स्वाभिप्रायाद्वेति । अननुमताऽपि तेन जातविश्रम्भा विकल्पं पुरुषायितभेदं योजयितुमर्थिनी तच्छीलत्वाद्, नायककुतूहलाद्वेति । नायकस्यात्र कौतुकमस्तीति ज्ञात्वा वा तेनाननुमताऽपरिश्रान्तस्यापि दद्यादित्येव ॥ १ ॥
तत्र युक्तयन्त्रेणैवेतरेणोत्थाप्यमाना तमवपातयेदेवं च रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्यादित्येकोऽयं मार्गः, पुनरारम्भेणादित एवोपक्रमेदिति द्वितीयः ॥ २ ॥
तत्रेति । पुरुषायिते द्विविधः क्रमः, तत्रायं प्रथमो यद् युक्तयन्त्रेणैवापत्यिकशल्यसंयोगेनैवेतरेण नायकेन त्र्यस्त्रस्थितेनासीनेन चोत्थाप्यमाना बाहुपाशसंदानिता सत्युपरि क्रियमाणा, तं नायकमवपातयेदिति । एवं सति रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्याद्, यन्त्रं हि विश्लेष्य पुनः संधाने रतमपूर्वमेव स्याद्, न पूर्वप्रकारप्रवृत्तं यथा प्रवृत्तञ्चात्र रागो विच्छिद्येत, तस्य चाकस्माद्विच्छेदे न सौमनस्यमित्यत्र कामिनः प्रमाणम्, अयं मार्गः श्रमवृद्धौ रागस्यानुपशमे द्रष्टव्यः, स्वाभिप्रायादिषु, पुनरारम्भेणेति । यदा रतस्य पुनरारम्भस्तदा तेनारम्भेण पुरुषवदादावेवोपक्रमेत प्रवर्त्तेत द्वितीयो मार्गः, नापरस्तृतीयो यदन्तरा यन्त्रं विश्लेष्य प्रयोक्तव्यम् ॥ २ ॥
पुरुषायितं द्विविधम्, बाह्यमाभ्यन्तरं च, तत्र प्रथममधिकृत्याह—
सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यामुरः पीडयन्ती पुनः पुनः शिरो नमयन्ती यांश्चेष्टाः पूर्वमसौ दर्शितवांस्ता एव प्रतिकुर्वीत पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात् पुनश्च व्रीडां दर्शयेच्छ्रपंविरामाभीप्सां च, पुरुषोपसृप्तैरेवोपसर्पेत् ॥ ३ ॥
सेति । स्वशिरसः प्रकीर्यमाणानि केशकुसुमानि चेष्टमानया ययेति विग्रहः, श्वासेन विच्छिन्नो यो हासः सोऽस्ति यस्याः, असदृशव्यापारेण जातश्रमत्वाद्, वक्रसंसर्गार्थं लज्जया न तु चुम्बनदशनच्छेद्या-