कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 145, कुल 353 में से
संदर्भ में पढ़ें१३८ सटीके कामसूत्रे [ २ अधिकरणे,
न्युपसृप्यमाणा द्रुतं रतिमधिगच्छति, गज इवेति। करौपम्यार्थं, गजाकारेणेत्यर्थः, तथा चोक्तम्—
'अनामिकाप्रदेशिन्यौ श्लिष्टाग्रे ज्येष्ठया सह।
गजहस्ताग्रसादृश्यात्तत्संज्ञं कृत्रिमं स्मृतम्' इति ॥
एवं च करग्रहणं कृत्रिमसाधनोपलक्षणार्थं, तेन कृत्रिमेणाभ्यन्तरान्युपसृप्तानि द्रष्टव्यानि ॥ १० ॥
तान्याह—
उपसृप्तकं मन्थनं हुलोऽवमर्दनं पीडितकं निर्घातो वराहघातो-वृषाघातश्चटकविलसितं संपुट इति पुरुषोपसृप्तानि ॥ ११ ॥
लिङ्गेन सम्बाधस्य मिश्रणात्सर्वमेवोपसृप्तकम् ॥ ११ ॥
न्याय्यमृजु संमिश्रणमुपसृप्तकम् ॥ १२ ॥
तत्र यदृजु प्रगुणं न्याय्यमागौपालाङ्गनाप्रसिद्धं मिश्रणं तद्, उपसृप्तकमिति। तत्र कन्प्रत्ययेन विशेषसंज्ञां दर्शयति ॥ १२ ॥
हस्तेन लिङ्गं सर्वतो भ्रमयेदिति मन्थनम् ॥ १३ ॥
हस्तेन लिङ्गं गृहीत्वा सम्बाधाभ्यन्तरे सर्वतो मथन्निव भ्रमयेत् ॥ १३ ॥
नीचीकृत्य जघनमुपरिष्टाद्घट्टयेदिति हुलः ॥ १४ ॥
नीचीकृत्य जघनामिति। स्वकटिमधः कृत्वा, उपरिष्टादिति। अभ्यन्तरस्योर्ध्वभागे भगं बहुलेनैव लिङ्गेनावघट्टयेत् ॥ १४ ॥
तदेव विपरीतं सरभसमवमर्दनम् ॥ १५ ॥
तदेवेति। घट्टनं, विपरीतमुच्चीकृत्य जघनमधस्तादिति, विशेषश्चापरो यः, सरभसमिति। रभसेन मृद्नीयादित्यर्थः, अधोभागस्य कण्डूतिबहुलत्वात् ॥ १५ ॥
लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेतेति पीडितकम् ॥ १६ ॥
लिङ्गेनेति। वेगादामूलं प्रवेश्यमानेन समाहत्य पीडयन्भगमवतिष्ठेत, चिरमिति। यावन्तं कालं लिङ्गोन्नमनावनमनानि कर्तुं समर्थः ॥ १६ ॥
सुदूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति निर्घातः ॥ १७ ॥
सुदूरमिति। प्रवेशितं लिङ्गमाबन्धमाकृष्य वेगेन जघन एव निर्घातवत्क्षिपेत् ॥ १७ ॥
एकत एव भूयिष्ठमवलिखेदिति वराहघातः ॥ १८ ॥