कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 152, कुल 353 में से
संदर्भ में पढ़ें९ अध्याये ] औपरिष्टकप्रकरणम् । १४५
तथाभूतमेव रागवशादर्धप्रविष्टं निर्दयमवपीड्यावपीड्य मुखे- दिश्याग्रचूषितकम् ॥ १८ ॥
तथाभूतमेवेति । निष्कोशितमेव, रागवशादिति । नायकस्य रागा- धिक्यात्, तदर्धप्रविष्टं ग्रन्थमतीत्य प्रविष्टं, निर्दयमत्यन्तम्, अवपीड्या- वपीड्येति । जिह्वौष्ठपुटेन द्वित्रिरवपीड्यावपीड्य मुखेऽभ्यन्तर एव, तदाम्रस्येव चूषितकम् ॥ १८ ॥
पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेरिति संगरः ॥ १९ ॥
पुरुषाभिप्रायादेवेति । पुरुषाभिप्रायमेव बुद्ध्वा; प्रत्यासन्नाऽस्य रतिरिति, गिरेत् पीडयेच्चेति । जिह्नाव्यापारेण पीडयित्वा गिरेद्, ओष्ठव्यापारेण पीडयेद्, आसमाप्तेरिति । शुक्रविसृष्टिं यावत्, सङ्गरः- समन्ताद् गिरणात् ॥ १९ ॥
यथार्थं चात्र स्तननप्रहणनयोः प्रयोग इत्यौपरिष्टकम् ॥२०॥
यथार्थमिति । यथा रागो निमितादिषु मृदुमध्याधिमात्रादिभेदेन स्थितस्तथा स्तननप्रहणनयोः प्रयोगः, आलिङ्गनादीनामत्रासम्भवाद्, इत्यौपरिष्टकमिति। एवं विषयस्वरूपफलवृत्तिप्रकारैरोपरिष्टकमुक्तम्॥२०॥
देशसात्म्यवशाद्विषयेऽप्यस्य वृत्तिरिति दर्शयन्नाह—
कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति॥२१॥
कुलटा इति । यः स्वकुलादन्यद्देशसदृशमटन्त्यो भ्रष्टशीलास्ताः- कुलटाः, याः सदृशमसदृशं वा कुलमविचार्य, स्वच्छन्दचारिण्यस्ताः- स्वैरिण्यः, या अन्यपूर्वा वा मुक्तप्रग्रहा नायकमुपचरन्ति ताः परिचा- रिकाः, याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः, एतत्प्रयोजय- न्तीत्यौपरिष्टकं कारयन्ति, न केवलं तृतीया प्रकृतिरित्यपिशब्दार्थः ॥२१॥
तदेतत्तु न कार्यं समयविरोधादसभ्यत्वाच्च पुनरपि ह्यासां वदनसंसर्गे स्वयमेवार्तिं प्रपद्येतेत्याचार्याः ॥ २२ ॥
तदेतत्तु न कार्यमिति । प्रयोज्यमानमपि, समयविरोधादिति । धर्म- शास्त्रे प्रतिषिद्धमेतद्, 'न मुखे मेहेत' इति, असभ्यत्वाच्चेति । सद्भि- र्विगर्हितत्वादसभ्यत्वं, तस्मादसभ्यत्वात्, प्रयोक्तुरप्यसभ्यत्वं दृष्ट एव दोषः, अयं चापर इत्याह—पुनरपि हीति । यदि हि कुलटाऽऽदीनां मुखे जघनकर्म कुर्यात्तदा पुनरपि जघनकर्मकाले रागवशाद्वदनस्य संसर्गे संस्पर्शे सत्यर्तिं प्रतिपद्येत दुःखमधिगच्छेद्, विचलितोऽस्मीति, स्वयमेवेति । न तत्र नायिकाऽपि ॥ २२ ॥
१९ का० सू०