कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 154, कुल 353 में से
संदर्भ में पढ़ें९ अध्याये ] औपरिष्टकप्रकरणम् । १४७
स्थभिप्रायेणेत्यर्थः, सौरसेनाः कौशाम्ब्या दक्षिणतः कूले ये निवसन्ति ॥२८॥
शङ्कायां हि स्वभार्यास्वप्यनाश्वासतामेव दर्शयन्नाह—
एवं ह्याहुः को हि योषितां शीलं शौचमाचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुमर्हति, निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः, तस्मादासाम् स्मृतित एव शौचमन्वेष्टव्यम् ॥२९॥
एवं ह्याह—
'वत्सः प्रस्स्रवने मेध्यः श्वा मृगग्रहणे शुचिः ।
शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे ॥ इति ॥
एवं हीति। शीलं = स्वभावं, शौचम् = अशुचिद्रव्यविश्लेषणम्, आचारं = त्रयीकर्मानुष्ठानं, चरित्रं = कुलक्रमा गतां स्थितिं, प्रत्ययं = विश्वासं, वचनं = वलिगतकं, कः श्रद्धातुमर्हति, परमार्थतः प्रत्येतुं नवेत्यर्थः, कुत इत्याह-निसर्गादेवेति । आत्मलाभादेव नान्यस्माद्, मलिनदृष्टयः = मलिनबुद्धयः, यल्लोकशास्त्रविरुद्धमप्याचरन्ति, न च परित्याज्या एवंभूता अपि, पुरुषार्थहेतुत्वात्, तस्माद्व्रतविधौ स्मृतित एव शौचमन्वेष्टव्यं-लोके स्मृतेः प्रामाण्यात्, तां स्मृतिमाह—एवं हीति। आह-स्मृतिकारः, मुखवर्जं गौः सर्वतो मेध्येत्युक्तं, प्रस्नवनकाले तु मुखं शुचि तत्स्पृष्टं-क्षीरमपि, श्वपच्युच्छिष्टं त्यजेदित्युकम्, मृगग्रहणे फलपातकाले च मुखस्य शुचित्वान्मांसं फलं च शुचि, तथा, रतिसङ्गमे = रत्यर्थसङ्गमे, स्त्रीमुखं कृतौपरिष्टकमन्यद्वा मेध्यं, नान्यदा सर्वाशुचिनिधानत्वादिति, अस्मिन्स्मृत्यर्थे सर्वत्र चुम्बनप्रसङ्ग इति ॥ २९ ॥
स्वमतं दर्शयन्नाह—
शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरात्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेतेति वात्स्यायनः ॥ ३० ॥
शिष्टविप्रतिपत्तेरिति । शिष्टानां प्राच्याहिच्छत्रिकनागरकाणां विप्रतिपत्तिर्दृश्यते, यथोक्तम्प्राक् , तस्माद्रतिसङ्गमेऽपि स्त्रीमुखन्न मेध्यं, शिष्टाचारस्य प्रामाण्याद्, यद्येवं विगीता स्मृतिरप्रामाणिका स्याद्, यथोक्तम्—
'विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा ।
स्मृतिर्न श्रुतिमूला स्याद्या चैषा भवनश्रुतिः' इति ।
अत्रोत्तरमाह—सावकाशत्वादिति । पत्नीमेवाधिकृत्यत्युक्तम्—'स्त्रीमुखं रतिसङ्गमे' इति, यद्येवं वेश्यासु चुम्बनविकल्पानर्थक्यमित्यत्र