कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 166, कुल 353 में से
संदर्भ में पढ़ें१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १९६
स्यास्यमुन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद्विस्त्रिर- वहन्यात् ॥ ४३ ॥ द्वारदेशं गच्छेत्तत्रचोपविश्याश्रुकरणमिति ॥ ४४ ॥ अतिक्रुद्धाऽपि तु न द्वारदेशाद् भूयो गच्छेद दोषवत्त्वादिति दत्तकः ॥ ४५ ॥
तस्य चेति । अनुनयतः, वचनमुत्तरेण योजयन्ती तत्कालोचितेन, विवृद्धक्रोधा पुनःपुनरपराधस्मरणात्, सकचग्रहमस्यास्यं मुखमुन्नमय्य, किंचिद्भावितचेष्टितो नेति ज्ञातुं सकृदवहृत्य, द्विस्त्रिरिति । क्रोधवशात्, तदानीं शिरसि पादताडनमपि न दोषाय, सौभाग्यचिह्नं तदिति नागरकवृद्धाः, तत्र चेति । द्वारदेशे, अश्रुकरणमश्रुविमोचनं, न भूयो न बहिः, दोषवत्त्वाद् भूयोगमनस्य कोपव्याजेनान्यत्र गमनाशङ्कोत्पत्तेः, दत्तकग्रहणं पूजार्थं, तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥ ४४ ॥ ४५ ॥
तत्र युक्तितोऽनुनीयमाना प्रसादमाकाङ्केत प्रसन्नाऽपि तु सकषायैरेव वाक्यैरेनं तुदतीव प्रसन्ना रतिकाङ्क्षिणी नायकेन परिरभ्येत ॥ ४६ ॥
तत्रेति । अश्रुकरणे पादताडनं क्रोधस्यावधिरिति मन्यमानो नायकः पुनस्तां युक्त्याऽनुनयेत्, सा तेन युक्तितोऽनुनीयमाना पादपतनंप्रसादनोपायस्यावधिरिति मन्यमाना प्रसादमाकाङ्क्षेत, ततः प्रसन्ना नायकेनालिङ्ग्यते तत्रापि सकलुषैः सासूयैर्वाक्यैरेनं नायकं तुदती व्यथयन्ती, प्रसन्ना रतिकाङ्क्षिणी प्रसन्ना रतिमाकाङ्क्षमाणा, अन्यथा न यदि परिरभ्येत तदाऽतिभूमिं गतात्कोपान्नायकोऽप्यप्रसन्न इति मतोऽयं कुलयुवत्याः पुनर्भ्वाश्च विधिः ॥ ४६ ॥
वेश्यायाः परपरिगृहीतायाश्च विशेषमाह—
स्वभवनस्था तु निमित्तात्कलहिता तथाविधचेष्टैव नायकमभिगच्छेत् ॥ ४७ ॥
स्वभवनस्था त्विति । निमित्तात्पूर्वोक्तात्, कलहितेति । कलहः संजातो यस्याः, कृतकलहेत्यर्थः, वाचिकममर्षणमेतत्, कायिकमाह—तथाविधचेष्टैवेति । असूयासूचकैर्दुरीक्षणभ्रूभङ्गादिभिः, नायकमभिगच्छेदिति, तस्य समीपे ढौकेतेत्यर्थः ॥ ४७ ॥
तत्र पीठमर्दविटविदूषकैर्नायकप्रयुक्तैरुपशमितरोषा तैरेवा-