भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 168, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 168

१० अध्याये ] प्रणयकलहप्रकरणम् । १६१

यत्वाह, एवं च कृत्वा नन्दिनीत्युच्यत इत्याह-नन्दिनीमिति । नन्दनं- नन्दः पूजा, सा विद्यते यस्या इति ॥ ५२ ॥ यथेयमनुगतार्था संज्ञा तथाऽन्याऽपीत्याह—

नन्दिनी सुभगा सिद्धा सुभगङ्करणीति च । नारीप्रियेति चाचार्यैः शास्त्रेष्वेषा निरुच्यते ॥ ५३ ॥

नन्दिनीति । सुभगा सर्वैर्गृहिभिरनुष्ठीयमानत्वात्, सिद्धा विद्येव वशङ्करणी, सुभगङ्करणी स्त्रीपुंसयोः सौभाग्यकरणाद्, नारीप्रिया विशेषतस्तत्सुखकरणाद्, एवमनेकार्थसाधिका, कस्तां न पूज- येत् ॥ ५३ ॥

अतो ज्ञाताऽपि तद्योगात्पूज्यः, विशेषतो नायिकानामित्याह—

कन्याभिः परयोषिद्भिर्गणिकाभिश्च भावतः । वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः ॥ ५४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रता- रम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः ।

आदितः पञ्चदश ।

कन्याभिरिति । पुनर्भूः परयोषित्त्येवान्तर्भूता, सैव हि विधवा पुन- र्भवतीति, वेश्येति वक्तव्ये गणिकाग्रहणं योषिदपि चतुःषष्टिविचक्षणेति दर्शनार्थम् , भावत इति । भावेन हेतुना, बहुमानेन गौरवेण ॥ ५४ ॥

प्रणयकलहो द्वाविंशं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः ।

समाप्तमिदं सांप्रयोगिकं द्वितीयमधिकरणम्।

२१ का० सू०

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · पृष्ठ 168, कुल 353 में से · BharatKosha