भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 217, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 217

२१० सटीक कामसूत्रे [ ४ अधिकरणे,

सौभाग्यजं वैकृतं यदहंकृत्य व्याहृतम्, औत्सुक्यमुत्सेकं चित्तवि- कारं नाद्रियेत नापेक्षेत, अभिभवभयात् ॥ ७ ॥

भर्तरि प्रमाद्यन्तीमुपेक्षेत ॥ ८ ॥

भर्तेरीति । भर्तृविषये प्रमाद्यन्तीं प्रमादं यान्तीमुपेक्षेत, अनेनव स्खलितदोषेण दौर्भाग्यं स्यादिति ॥ ८ ॥

यत्र मन्येतार्थमियं स्वयमपि प्रतिपत्स्यत इति तत्रैनामादरत- एवानुशिष्यात् ॥ ९ ॥

यत्रेति । यस्मिन्प्रमादे मन्येत, नायकसंभोगार्थमियं कृत्वा सपत्नी स्वयमेव प्रतिपत्स्यते प्रमादो माभूदिति, तत्रैनां स्नेहख्यापनार्थमादरतो-ऽनुशिष्यात्पुनर्मा कार्षीरिति ॥ ९ ॥

नायकसंश्रवे च रहसि विशेषानधिकान्दर्शयेत् ॥ १० ॥

नायकसंश्रवे चेति । नायकस्य श्रुतिगोचरे सति, रहसि च यत्रान्यो-न शृणोति, विशेषानिति । कलाविशेषान्, अधिकानिति । ये नायकस्य न दर्शिताः, तद्दर्शने ह्युभावपि स्निह्यतः ॥ १० ॥

तदपत्येष्वविशेषः ॥ ११ ॥

तदपत्येष्विति । अपुत्रया सपुत्राया दर्शयितव्यः ॥ ११ ॥

परिजनवर्गेऽधिकानुकम्पाः ॥ १२ ॥

परिजनवर्ग इति । सपत्न्याः, अधिकानुकम्पा यद्यसौ नायकस्या-प्यभिमतः ॥ १२ ॥

मित्रवर्गे प्रीतिः ॥ १३ ॥

मित्रवर्ग इति । तस्या विवाहकाले यो मित्रवर्गस्तस्मिन्प्रीतिः स्वी-कारार्थम् ॥ १३ ॥

आत्मज्ञातिषु नात्यादरः ॥ १४ ॥

आत्मनो ज्ञातिषु नात्यादरो वचनीयतापरिहारार्थम् ॥ १४ ॥

तज्ज्ञातिषु चातिसंभ्रमः ॥ १५ ॥

तज्ज्ञातिष्विति । सपत्नीज्ञातिष्वतिसंभ्रमोऽत्यादरः स्नेहख्यापना-र्थम् ॥ १५ ॥

बह्वीभिस्त्वधिविन्नाऽव्यवहितया संसृज्येत ॥ १६ ॥

बह्वीभिस्त्वधिविन्ना, सपत्नीभिरव्यवहितयाऽनन्तरया कनीयस्या संसृज्येत विदितशीलत्वात् ॥ १६ ॥

यां तु नायकोऽधिकां चिकीर्षेत्तां भूतपूर्वसुभगया प्रोत्साह्य