कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 229, कुल 353 में से
संदर्भ में पढ़ें२२२ सटीके कामसूत्रे [ ५ अधिकरणे,
तानि क्रमेणाह—
चक्षुःप्रीतिर्मनःसङ्गः संकल्पोत्पत्तिर्निद्राच्छेदस्तनुता विषयेभ्यो- व्यावृत्तिर्लज्जाप्रणाश उन्मादो मूर्छा मरणमिति तेषां लिङ्गानि ॥५॥
चक्षुःप्रीतिरिति । स्त्रियं दृष्टवतः संयोगेच्छाल्लक्षणात्कामादनन्तरं दृशौ स्निग्धे भवतः, ततो विषयाप्राप्तौ मनसः सक्तिः, तस्मिन्सक्ते संक- ल्पोत्पत्तिः, कथं प्राप्स्यामि ? प्राप्य चैवमनुष्ठातव्यमिति, ततः संकल्पयतो निद्राच्छेदः, ततो निद्रामलभमानस्य तनुता शरीरकार्श्यं, ततो विषयेभ्यो व्यावृत्तिः, सर्वथा तद्गतचित्तत्वादन्यविषयाज्ज्वलदनलप्रख्यान्नोपयाति, तेभ्यश्च व्यावर्तमानस्य लज्जाप्रणाशनं, गुरुभ्योऽपि न लज्जते, उपक्षीणार्थ- त्वाच्च न बिभेति, विप्रणष्टलज्जस्य निर्भयस्य चोन्मादः प्रवर्तते, ततो मूर्छा भवत्यस्वास्थ्यसंज्ञिका, ततो मरणं प्राणत्यागः, तेषामिति । कामस्था- नानां प्रतिपत्त्यर्थमेते चक्षुःप्रीत्यादयो लिङ्गानि तत्कार्यत्वात् ॥ ५ ॥
तत्राकृतितो लक्षणतश्च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेदित्याचार्याः ॥ ६ ॥
तत्रेति । तस्मिन्नरागवशादभिगमने शीलादिकमेव प्राधान्येन लक्षयेद्, आकृतित इति । शरीरस्थानेन, लक्षणतः शरीरस्थेन चिन्हेन, शीलं वक्ष्य- माणं, सत्यं यथार्थवादितां, शौचं चारित्रविशुद्धिम् ॥ ६ ॥
व्यभिचारादाकृतिलक्षणयोगानामिङ्गिताकाराभ्यामेव प्रवृत्ति- र्बोद्धव्या योषित इति वात्स्यायनः ॥ ७ ॥
व्यभिचारादिति । सत्यप्याकृतियोगे लक्षणयोगे च नावश्यं शीलस- त्यशौचानि गम्यन्ते, साध्यासाध्यतां चण्डमृदुवेगतां पुनर्गमयन्त्येव, कथं- तर्हि ? लक्षयेदित्याह—इङ्गिताकाराभ्यामिति, बोद्धव्या शीलादियुक्तेत्यर्थः, तत्रेङ्गिताकारौ कन्यासं प्रयुक्तकेऽभिहितौ, प्रवर्त्तनं प्रवृत्तिः, इङ्गितव्यति- रेकेण, तत्र त्रिभिरेव शीलं, शौचादीनि शेषाणि प्रवृत्त्या स्त्रीपुंसयोः ॥७॥
कस्याः किं शीलमित्याह—
यं कञ्चिदुज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते, तथा पुरुषोऽपि योषितम्, अपेक्षया तु न प्रवर्त्तते, इति गोणिकापुत्रः ॥ ८ ॥
यं कञ्चिदिति । स्वकीयं परकीयं वा पुरुषम्, उज्ज्वलं वर्णवेषा- भ्यां, कामयते सञ्जातरोगा भवति, पुरुषोऽपि योषितमुज्ज्वलां दृष्ट्वा कामयते, अपेक्षया तु कस्य वित्कार्यस्य न प्रवर्त्तते, द्वावपि न संप्र- युज्येते, तदुभयोरप्युज्ज्वलकामित्वं च कार्यापेक्षित्त्वं च शीलं, गोणि- कापुत्रग्रहणं प्रावीण्यख्यापनार्थम् ॥ ८ ॥