कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 26, कुल 353 में से
संदर्भ में पढ़ें१४ सटीक कामसूत्रे [ १ अधिकरणे,
स्पर्शविशेषविषये स्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः ॥ १२ ॥
स्पर्शविशेषविषये त्विति । वाक्पाणिपादपायूपस्थानि=कर्मेन्द्रियाणि; तेषां वचनादानविहरणोत्सर्गानन्दकर्मनिष्पादनात् , तत्र स्त्रीपुंसयोर्यदधो व्यञ्जनं संबाधकादि तन्मात्रस्वभावं तत्त्वगिन्द्रियमेव; तस्य कश्चिदेव प्रदेशविशेष उपस्थेन्द्रियमुच्यते, यो विसृष्ट्यवस्थायामानन्दजं कर्म जनयति, तस्य व्यञ्जनस्य योऽन्तर्गतः स्पर्शः स स्पर्शविशेषः, तस्मिन्विषये प्रतीतिरसावर्थप्रतीतिस्त्वगिन्द्रियबुद्धिः, अस्याः संप्रयोगेच्छा लक्षणः कामिताऽऽख्यो भावः कारणम् । अस्येति । स्त्र्यात्मनः; पुरुषात्मनश्च, तत्र स्त्र्यात्मनः पुरुषव्यञ्जनस्पर्शविशेषविषये स्त्रीव्यञ्जनत्वगिन्द्रियप्रतीतिः; पुरुषात्मनश्च स्त्रीव्यञ्जनस्पर्शविशेषविषये पुरुषव्यञ्जनत्वगिन्द्रियप्रतीतिरित्यर्थः । विशेषदेशोपग्रहणात्पुरुषयोरुकक्षादिस्पर्शनविषये; स्त्रियाश्चापद्रव्यस्पर्शविषये प्रतीतिर्निरस्ता, तस्या अप्रधानत्वात्, एवंविधा प्रतीतिः सामान्यकाम एव, कथं विशेषत्वमिति चेद् ? आह-फलवतीति । तस्यां प्रतीतौ प्रबन्धेनोत्पद्यमानायां शुक्रक्षरणेन तत्तुल्यकालमेव चानन्दाख्यं फलं सुखमित्युक्तम्, तेन युक्ता शुक्रस्पर्शविशेषविषये विषयप्रीतिरपरा भवति, तस्याश्च पूर्विकैव प्रतीतिरफला कारणम्, अतो विषयभेदात्स्वरूपभेदाच्च द्विधा प्रतीतिः । अर्थप्रतीतिरिति । अर्थग्रहणात्त्वक्प्रत्यञ्जनस्पर्शार्थस्यालीकत्वात्फलवत्यपि न कामः, तस्या अप्रधानत्वात्। यद्येवं वियोनावयोनौ वाऽनभिप्रेतेऽर्थप्रतीतिरेवंविधाऽप्यस्तीत्यत आह—अभिमानिकसुखानुविद्धेति । आभिमानिकं चुम्बनादिसुखं वक्ष्यति । चुम्बननखदशनच्छेद्यादिषु हि तत्र तत्र स्थानेषु प्रयुज्यमानेषु स्त्रीपुंसयो रागः संकल्पवशात्सुखमित्यभिमन्यते, तेन सुखेनानुविद्धेत्याक्षिप्तसंस्कारेऽर्थप्रतीतिः प्राधान्यात्कामः, तेन वियोनावयोनौ वाऽनभिप्रेतस्त्रीपुंसयोः फलवत्यर्थप्रतीतिर्न कामः, आभिमानिकसुखाभावात्, तस्मात्स्पृष्टव्यविशेषविषयो विशेषः कामः ॥ १२ ॥
तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत ॥ १३ ॥
तमिति । उक्तस्वरूपं सामान्यं विशेषं च, प्रधानमप्रधानं च , कामसूत्रादस्मादेव, शास्त्रेऽधिकृतो यः, इतरश्च नागरिकसमवायात्कामव्यवहारज्ञसंसर्कात्प्रतिपद्येतेति ॥ १३ ॥
एवं धर्मादीनि युगपत्सेवितुमधिगन्तुं वा न संभवन्तीति गौरवलाघवमपि बुध्येतेत्याह—
तेषां समवाये पूर्वः पूर्वो गरीयान् ॥ १४ ॥