कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 260, कुल 353 में से
संदर्भ में पढ़ें४ अध्याये ] दूतीकर्मप्रकरणम् । २६३
विश्वासेन हेतुना योजयित्वा, तयैवाकारयेत् = स्वभार्ययाऽऽकारं ग्राहयेत्, प्रकाशयेत्, तदैवात्मनश्च कलासु वैचक्षण्यं कलाकौशलं तयैव प्रकाश- येत्, सा भार्यादूती पत्रहारीप्रकारा, तयैव = भार्यादूत्या, तस्याः = ना- यिकायाः, आकारग्रहणं प्रत्युत्तरग्रहणमित्यर्थः ॥ ५९ ॥ यदि स्वभार्याया न गोचरस्तदा किं प्रतिपद्येतेत्याह--
बालां वा परिचारिकामदोषज्ञामदुष्टेनोपायेन प्रहिणुयात्, तत्र स्रजि कर्णपत्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती, तस्यास्तयैव प्रत्युत्तरप्रार्थनम् ॥ ६० ॥
बालां वा परिचारिकां न यां कां चिद्, अदोषज्ञाम् = अधूर्ताम्, अदुष्टे- नेति । बालक्रोडनकाद्युपायेन, नायिकागृहं प्रति प्रतिदिनं प्रहिणुयात् , तत्रेति । तस्यां जातपरिचयायां गूढलेखविधानं च वाचयित्वा, मां नाय- कोऽप्याकारयतीति, सा प्रतिपद्यते, नखदशनपदानि च स्रजि कर्णपत्रे वा निदध्यादिति योज्यं, सा मूकदूती, अर्थानभिलपनादियं पत्रहारी- प्रकारा, तस्या नायिकायास्तयैव प्रत्युत्तरप्रार्थनं, यदि तया कर्ण- पत्रात् पत्रं गृहीतं किमन्यन्मृगयस इति ॥ ६० ॥ यत्र बालाया अप्यगोचरस्तत्र किं प्रतिपद्येतेत्याह-
पूर्वप्रस्तुतार्थलिङ्गसम्बद्धमन्यजनाग्रहणीयं लौकिकार्थं द्व्यर्थं वा वचनमुदासीनया श्रावयेत्सा वातदूती, तस्या अपि तयैव प्रत्यु- त्तरप्रार्थनमिति तासां विशेषाः ॥ ६१ ॥
पूर्वप्रस्तुतेति । नायकयोर्यत्पूर्वप्रस्तुतं प्रवृत्तं कार्यं तस्य चिह्नं तेना- भिज्ञानार्थं सम्बद्धं वचनम्, अन्यजनाग्रहणीयं, ताभ्यामेव तदर्थस्य ग्रहणाद्, अत्र म्लेच्छितकविकल्पकला द्रष्टव्या, लौकिकार्थं च लोक- विदितार्थं, द्व्यर्थमप्रस्तुतार्थस्यापि वाचकत्वाद्, उदासीनया न क्व चित्प्रतिबद्धया, एवं च सा वातदूतीत्युच्यते, पत्रहारीप्रकारैव चेति, तयैव प्रत्युत्तरप्रार्थनं, तया हि प्रश्नस्य प्रतिप्रश्नं याचेतेत्यर्थः, तासां- विशेषा निसृष्टार्थाऽऽदीनां स्वयं दूत्यादयो विशेषाः, एवमन्येऽपि विशेषा- यथासंभवमत्रैव द्रष्टव्याः, यथाहुर्बाभ्रवीयाः-- 'पुत्रिका चित्ररूपाणि पशवः शुकसारिकाः । सर्वेषां गूढभावानां दूतकर्माणि कुर्वते, इति ॥ ६१ ॥ यास्तिस्रो दूत्य उक्तास्ताः का इत्याह-- भवन्ति चात्र श्लोकाः- विधवेश्यानिका दासी भिक्षुकी शिल्पकारिका ।