कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 302, कुल 353 में से
संदर्भ में पढ़ें३ अध्याये ] विरक्तप्रतिपत्तिप्रकरणम् । २९५
अविस्मरणमिति । विस्मरणे हि तवेदं मयोपहृतमिति यदि तेना- भिहिता किं ब्रूयाद्, अनुकीर्तनं च तत्समक्षं येनोपकृतमन्न न नश्यतीति, पुनः प्रयच्छति ॥ २१ ॥
प्रणिधिभिः प्रतिगणिकानां लाभातिशयं श्रावयेत् ॥ २२ ॥
प्रणिधिभिः = चारैः, प्रतिगणिकानामात्मना तुल्यदानमनर्हाणां, ला- भातिशयश्रावणं नायकसमक्षं, भवदावासाद्द्विष्णुमित्रया लब्धमिदमधि- कमित्यादि ॥ २२ ॥
तासु नायकसमक्षमात्मनोऽभ्यधिकं लाभं भूतमभूतं वा व्री- डिता नाम वर्णयेत् ॥ २३ ॥
तास्विति । प्रतिगणिकासु, यो लाभस्तस्मादप्यधिकमिति योज्यम्, भूतं वा नायकेन दत्तम्, अभूतमदत्तम्, व्रीडिता नामेति । लज्जितेव वर्णयेद्, येन सोऽपि लज्जितः प्रयच्छेत् ॥ २३ ॥
पूर्वयोगिनां च लाभातिशयेन पुनः संधाने यतमानानामावि- ष्कृतः प्रतिषेधः ॥ २४ ॥
पूर्वयोगिनामिति। पूर्वसंसृष्टानां विशीर्णानां, लाभातिशयेनाधिकेन लाभेन, पुनः सन्धाने यतमानानां यत्नं कुर्वताम्, आविष्कृतः = प्रकटः, प्रतिषेधः कर्तव्यः, यथाऽसौ श्रुत्वा मय्यनुरक्तेति प्रयच्छति ॥ २४ ॥
तत्स्पर्धिनां च त्यागयोगितानिदर्शनम् ॥ २५ ॥
तत्स्पर्धिनां चेति । नायकस्पर्धिनां त्यागयोगितानिदर्शनं प्रणिधि- भिस्त्यागयोगित्वख्यापनार्थमित्यर्थः, येनायं श्रुत्वाऽवतार एषां मा भूदिति प्रयच्छति ॥ २५ ॥
न पुनरेष्यतीति बालयाचितकमित्यर्थागमोपायाः ॥ २६ ॥
न पुनरेष्यतीति । न पुनर्गृहमेनेनागन्तव्यमिति, बालेन प्रयुक्तेन याचितकं कार्यमिदं मे देहीति, बालवद्वा लज्जां त्यक्त्वा याचितव्यमि- त्यर्थः, एतेऽर्थागमोपाया देशकालावस्थाऽपेक्षया प्रयोक्तव्याः ॥ २६ ॥
इत्यर्थागमोपायास्त्रिपञ्चाशत्तमं प्रकरणम् ॥
सक्ताद्वित्तादानमुपायैरुक्तं, विरक्ते तु किं प्रतिपद्येतेति, विरक्तप्रति- पत्तिरुच्यते, तत्र विरक्तस्य लक्षणमाह—
विरक्तं च नित्यमेव प्रकृतिविक्रियातो विद्याद् मुखवर्णाच्च॥२७॥
विरक्तं चेति । नित्यमेवेति । सर्वत्र क्रियासु वर्तमानम्, प्रकृतिविक्रि- यात इति । स्वभावान्यथात्वेनेत्यर्थः, अनेनेङ्गितमन्यथावृत्तिलक्षणं दर्श-