भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 304, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 304

३ अध्याये ] निष्कासनक्रमप्रकरणम् । २९७

तानि चेति । सारद्रव्याणि, अस्या इति । नायिकाया हस्ताद्, उत्तमर्ण इति । यस्मादुत्तमर्णानायकार्थमृणमाहृतं गृहीतवती स तया कृतसंकेतः प्रसह्याभिभूय गृह्णीयात् ॥ ३७ ॥

विवदमानेन सह धर्मस्थेषु व्यवहरेदिति विरक्तप्रतिपत्तिः ॥ ३८ ॥

विवदमानेनेति । मदीयमेतत्स्वं किं गृह्णासीति विवादं कुर्वता नायकेन सह, धर्मस्थेषु प्राङ्‌विवाकादिषु च, व्यवहरेदुत्तमर्णः, यदि तु न विवदेत सिद्धं कार्यम् ॥ ३८ ॥

इति विरक्तप्रतिपत्तिश्चतुःपञ्चाशत्तमं प्रकरणम् ॥

विरक्तस्य स्वयमेव निष्कासितत्वान्न निष्कासनं, यस्तु सक्तत्वात्स्वयं न निष्कसति, तस्य निष्कासनक्रमा उच्यन्ते, तत्रायं प्रथमः कल्पो यदस्यानुपालनं, यदाह—

सक्तं तु पूर्वोपकारिणमप्यल्पफलं व्यलीकेनानुपालयेत् ॥ ३९ ॥

सक्तमिति । अल्पं ददतमपि, व्यलीकेनापराधेनानुपालयेत्, तस्य सक्तत्वात्, पूर्वं बहुधा कृतोपकारोऽपि परामिच्छति यदा तदा निष्कासयेदित्यर्थः ॥ ३९ ॥

असारं तु निष्प्रतिपत्तिकमुपायतोऽपवाहयेदन्यमवष्टभ्य ॥ ४० ॥

असारं = निर्द्रव्यम्, अपवाहयेद् = निष्कासयेद्, यद्यपि तदात्वे नास्ति, तथाऽपि भविष्यतीति चेदाह—निष्प्रतिपत्तिकमिति । निरनुष्ठानमित्यर्थः, ननु रतिफलत्वात्कथं निष्कास्य इति-चेन्न, अन्यमवष्टभ्येति । अन्यस्मादुभयोपपत्तेः, वर्तमानादन्यं पूर्वसंसृष्टं विशीर्णम्, अन्यं वाऽऽसृत्यापवाहयेदिति योज्यम्, अन्यथा विपक्षस्याभावात् सत्यप्युपायप्रयोगे सक्तस्यानिष्कासनात् ॥ ४० ॥

ते च निष्कासनोपायाः प्रकाशे रहसि वा स्थितस्य, तत्र पूर्वमधिकृत्याह—

तदनिष्टसेवा, निन्दिताभ्यासः, ओष्ठनिर्भोगः, पादेन भूमेरभिघातः, अविज्ञातविषयस्य संकथा, तद्विज्ञातेष्वविस्मयः, कुत्सा च, दर्पविघातः, अधिकैः सह संवासः, अनपेक्षणं, समानदोषाणां निन्दा, रहसि चावस्थानम् ॥ ४१ ॥

तदनिष्टसेवेति । तस्य नायकस्य यदनिष्टं तस्य सेवा कर्तव्या, येनायं प्रागेवेयं मम च्छन्दानुवर्तिनी संप्रति कामं परीवादयुक्ता विरक्तेति व्यावर्तते, निन्दितं = तृणच्छेदलोष्टमर्दनादि तस्याभ्यासः पुनः पुनः करणं तदग्रतो, येनायं ममाशुभं काङ्क्षत इति जानाति, ओष्ठनिर्भोगः, तं दृष्ट्वा

३८ का० सू०