भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 318, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 318

५ अध्याये ] लाभविशेषप्रकरणम् । ३११

ऋजवोऽप्याहताश्च त्यागिनो भवन्ति, कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा विरज्यते परीक्षितशीलत्वाच्च न मिथ्या दूष्यत इति वात्स्यायनः ॥ १५ ॥

चिरमिति । दीर्घकालम्, आराधितोऽपि कान्तानुवृत्त्या, व्यलीकं नायिकाऽपराधमुपलभ्य, मिथ्यादूषित इति । मिथ्यैव दोषं ग्राहितः सदैवेयं व्यलीकं कुरुत इति, श्रममतीतमाराधनक्लेशं नापेक्षते, कुत इत्याह- प्रायेण हीति । बाहुल्येन त्यागिनां तेजस्विताऽऽदयस्त्रयो धर्माः संभवन्ति, तत्र तेजस्वितया व्यलीकं नोपेक्षन्ते, ऋजुतया मिथ्यादोषं ग्राह्यन्ते, अत्याहृतत्वाच्छ्रमं नापेक्षन्ते, ततश्च कथं दातारः, पूर्वश्रमापेक्षीति । कृतज्ञत्वादेव सहसा न विरज्यते व्यलीकमुपलभ्यापि, परीक्षितशीलत्वाच्चेति । कृतज्ञतयैव परीक्षणस्वभावत्वान्न मिथ्यैव, दोषं ग्राह्यते ॥ १५ ॥

तत्राप्यायतितो विशेषः ॥ १६ ॥

तत्रेति । स्पष्टम् ॥ १६ ॥

यत्र प्रभावोऽस्ति यथाऽर्थोपगमनहेतुस्तथा मित्रवचनमनर्थप्रतीघातोऽर्थसंशयश्च तेषां विशेषमाह—

मित्रवचनार्थगमयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥ १७॥

मित्रवचनादर्थः प्रत्यक्षस्तस्य दृश्यमानत्वाद्, अन्यत्र तु मित्रवचनमेव केवलम् ॥ १७ ॥

सोऽपि ह्यर्थागमो भविता, मित्रं तु सकृद्वाक्ये प्रतिहते कलुषितं स्यादिति वात्स्यायनः ॥ १८ ॥

सोऽप्यर्थागमः, भविता = भविष्यति, प्रतिहत इत्यननुष्ठिते, कलुषितं रोषितं स्यात्, ततश्च तत्प्रतिबद्धकार्यहानिरेव स्यात् ॥ १८ ॥

तत्राप्यतिपाततो विशेषः ॥ १९ ॥

अतिपातत इति । यदा तदानीमुपेक्षितोऽर्थोऽतिपतति तत एव विशेषः ॥ १९ ॥

मित्रं कलुषितं स्यादिति चेदाह—

तत्र कार्यसंदर्शनेन मित्रमनुनीय श्वोभूते वचनमस्त्विति ततोऽतिपातिनमर्थं प्रतिगृह्णीयात् ॥ २० ॥

तत्रेति । कार्यसंदर्शनेनेति । यन्मम कार्यं तत्तवापि कार्यं चेदिदं महदुपस्थितमतिपतति त्वद्वचनं च श्वः कर्तास्मीत्युनुनयपूर्वमुक्त्वा प्रतिगृह्णीयात् ॥ २० ॥

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · पृष्ठ 318, कुल 353 में से · BharatKosha