कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 353, कुल 353 में से
संदर्भ में पढ़ें३४६ सटीके कामसूत्रे [ ७ अधिकरणे,
नन्तरमिति । विधानान्तरं, प्रयत्नान्निर्धारितदेशपुरुषापेक्षया निषिद्धाः॥५४॥
तदेव स्फुटयन्नाह—
न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते । शास्त्रार्थान् व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ ५५ ॥
न शास्त्रमस्तीति । व्याख्यातं चैतत्प्राक् ॥ ५५ ॥
यतश्च शास्त्रात् प्राधान्येन संक्षिप्य निबद्धं येन च तदुभयं दर्शयन्नाह—
बाभ्रवीयांश्च सूत्रार्थानगमय्य विमृश्य च । वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥ ५६ ॥
बाभ्रवीयांश्चेति । आगमय्य गुरुभ्यः, विमृश्य च स्वबुद्ध्या ॥ ५६ ॥
ययाऽवस्थया यदर्थं च विहितं तद्दर्शयन्नाह—
तदेतद् ब्रह्मचर्येण परेण च समाधिना । विहितं लोकयात्रार्थं न रागार्थोऽस्य संविधिः ॥ ५७ ॥
तदेतदिति । परेण च समाधिना समाहितेन, लोकयात्रार्थमिति । चातुर्वर्ण्ये गृहस्थव्यवहारार्थं न पुन रागार्थोऽस्य संविधिः ॥ ५७ ॥
कथं न रागार्थो भवतीत्याह—
रक्षन्धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीम् । अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥ ५८ ॥
रक्षन्निति । अस्य शास्त्रस्य यस्तत्त्वं वेत्ति सोऽवश्यं धर्मादीन् परस्परस्यानुपघातेन रक्षन्, लोकवर्तिनीमिति । इहलोकपरलोकमार्गशोभनाशोभनात् ॥ ५८ ॥
तदेतत्कुशलो विद्वान्धर्मार्थाववलोकयन् । नातिरागात्मकः कामी प्रयुञ्जानः प्रसिध्यति ॥ ५९ ॥
इति वात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयनं वृद्धियोगाश्चित्रयोगा द्वितीयोऽध्यायः ॥
समाप्तमौपनिषदिकं सप्तममधिकरणम् । समाप्तं वात्स्यायनसूत्रम् ।
तदेतत्कुशल इति । एतस्मिन् शास्त्रे कुशलो विद्वान् ज्ञानवान्, धर्मार्थाविति । धर्मार्थोभयं यथा कामेन न बाध्यते, कामीति । गृहस्थः, प्रयुञ्जान इति । शास्त्रार्थं, प्रसिद्ध्यति लोकेषु प्रमाणपुरुषो भवति नातिरागात्मकत्वादिति ॥
इति चित्रयोगाश्चतुःषष्टितमं प्रकरणम् ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायामौपनिषदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयने वृद्धियोगाश्चित्रयोगा द्वितीयोऽध्यायः ।
समाप्तं सव्याख्यानं कामशास्त्रम् ।