कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 44, कुल 353 में से
संदर्भ में पढ़ें३२ सटीक कामसूत्रे [ १ अधिकरणे,
'मूलपत्रकरीराग्रफलकाण्डप्ररूढकम् ।
त्वक्पुष्पं कण्टकं चेति शाकं दशविधं स्मृतम्' ॥
भक्ष्यं खण्डखाद्यादि, पेयं द्विविधम्-अग्निनिष्पाद्यमितरच्च, तत्र पूर्वं यूषाख्यं; तच्च द्विविधम्-मुद्गादिनिर्यूहकृतं मांसनिर्यूहकृतं च, एवं नानाप्रकाराणां क्रिया पाकविधानेन निष्पादनं, यदनग्निनिष्पादनं पेयं तद् द्विविधम्-सन्धानकृतमितरच्च, तत्राद्यं-द्रावितमद्रावितं च; तत्र यद् गुडतिन्तिडिकाऽऽदि जलेन संयोज्य क्रियते तद् द्रावितं पानकाख्यम्, यद् द्रावकौषधेन तालमोचाफलानि संयोज्य निष्पाद्यते तदद्रावितं रसाख्यम्, आसवग्रहणेन सन्धानमुपलक्षयति; तन्मृदुमध्यतीक्ष्णसन्धानयोजनात्तथाविधमेव निष्पाद्यते, रागग्रहणं लेह्यं सूचयति, तस्य त्रैविध्यात् , तथा चोक्तम्—
'रागो रागविधानज्ञैर्लेह्यश्चूर्णो द्रवः स्मृतः ।
लवणाम्लकटुस्वाद ईषन्मधुरसंयुतः' ॥ इति,
एतच्चतुर्विधमास्वाद्यकलायां प्रपञ्चितं शरीरस्थित्यर्थं, योगविभागोऽग्निजानग्निजकर्मदर्शनार्थः, तत्र पाकेन शाकादिक्रिया, विना पाकेन पानकादियोजनम् अन्यथा ह्यास्वाद्यविधिरित्युक्तं स्यात् तस्मात्कर्मभेदादास्वाद्यविधानं द्विविधं तद्वशादेकाऽपि कला द्विधाकृत्योक्ता । २५सूचीवानकर्माणीति । सूच्या यत्सन्धानकरणं तत्सूचीवानं त्रिविधं-सीवनम्, ऊतनम्, विरचनम् , तत्राद्यं कञ्चुकादीनाम्, द्वितीयं त्रुटितवस्त्राणाम् , तृतीयं कुथास्तरणादीनाम्, इयं प्रतीतार्थैव । २६सूत्रक्रीडेति । नालिकासञ्चारनालादिसूत्राणामन्यथाऽन्यथा दर्शनं छित्त्वा दग्ध्वा च पुनरच्छित्त्वाऽदग्ध्वा दर्शनं; तच्चाङ्गुलिन्यासाद् बकुलादिदर्शनम् इत्येवंप्रकारा क्रीडाऽर्थैव । २७वीणाडमरुकवाद्यानीति । वाद्यान्तर्गतत्वेऽपि तन्त्रीवाद्यं प्रधानं तत्रापि वीणावाद्यम्, डमरुकवाद्यमावश्यकार्थम् बालोपक्रमहेतुत्वाद् दुर्विज्ञेयत्वाच्च ततो ह्यक्षराणि स्पष्टान्युच्चार्यमाणानि श्रूयन्ते । २८प्रहेलिकेति । लोकप्रतीता, क्रीडाऽर्था वादार्था च २९प्रतिमालेति । यस्या अन्त्याक्षरिकेति प्रतीतिः सा क्रीडाऽर्था वादार्था च, यथोक्तम्—
'प्रतिश्लोकं क्रमाद्यत्र सन्धायाक्षरमन्तिमम् ।
पठेतां श्लोकमन्योन्यं प्रतिमालेति सोच्यत' इति ॥
३०दुर्वाचकयोगा इति । शब्दतोऽर्थतश्च दुःखेन चोच्यत इति दुर्वाचकं तस्य प्रयोगाः क्रीडाऽर्था वादार्थाश्च, यथा काव्यादर्शे—
'दंष्ट्राऽग्रद्व्यां प्राग्यो द्राक्क्षमामम्ब्वन्तःस्थामुच्चिक्षेप ।
देवभृङ्गिक्षिद्वित्विक्स्तुत्यो युष्मान्सोऽव्यात्सप्तार्णकेतुः ॥ इति,