कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 55, कुल 353 में से
संदर्भ में पढ़ें४ अध्याये ] नागरकवृत्तप्रकरणम् । ४५
पक्षस्येति । पक्षस्य मासस्य वाऽतिक्रान्तस्यावसानिकेऽहनि, प्रज्ञात-इति । यद्दिनं यस्या देवताया लोकप्रसिद्धं तत् प्रज्ञातम्, यथा गणपतेश्च-तुर्थी, सरस्वत्याः पञ्चमी, शिवस्याष्टमीत्यादि, तत्र देवतायाः संनिधा-नात् , सरस्वती च नागरकाणां विद्याकलास्वधिदेवता, तस्या आयतने पञ्चम्याम् , नियुक्तानामिति । नायकेन पूजोपचारकत्वे प्रतिपक्षं प्रतिमासं-च ये नियुक्ता नागरकनटादयो नर्त्तितुं, तेषां समाजः, स्वव्यापारानुष्ठानेन मिलनं, यस्मिन् प्रवृत्ते नागरकाः सामाजिका भवन्ति, नित्यमिति । तत्र तत्राहनि ॥ २७ ॥
अन्येष्वहःसु धूपविलेपनघटा, तस्या निबन्धनमाह—
कुशीलवाश्चागन्तवः प्रेक्षणकमेषां दद्युः ॥ २८ ॥
कुशीलवाश्चेति । आगन्तवोऽन्यस्मादायतनाद् नटनर्तकाः, प्रेक्षण-कमेषां प्रज्ञातेऽहन्यन्यत्र वाऽहनि दद्युर्दर्शयेयुः, नियुक्तास्तु भृतिप्रति-बद्धा यात्रायां कुशीलवत्वात् प्रज्ञात एव दर्शयन्ति, इदमुक्तं भवति-पू-जोपचारकैः पात्रापात्रत्वमनपेक्ष्यैव प्रेक्षणमवश्यं ते दर्शयितव्या इति॥२८॥
द्वितीयेऽहनि तेभ्यः पूजा नियतं लभेरन् ॥ २९ ॥
द्वितीय इति । प्रथमेऽहनि प्रेक्षणकव्यग्रत्वात् , तृतीयादिष्वपि क्लिष्ट-दानं स्यात्, तेभ्य इति । नियुक्तेभ्यः पूजोपचारकेभ्यः, पूजा प्रेक्षणक-फलम्, नियतमिति । एतावत् प्रेक्षणकमूल्यमागन्तूनामिति पूर्वकल्पितं-प्राप्नुयुः, अनियतात् प्रेक्षणकाद् रागाद्वस्त्रादिदानलक्षणं प्रथमे वाऽह्नि रङ्गमध्ये नागरकेभ्यो लभेरन् ॥ २९ ॥
ततो यथाश्रद्धमेषां दर्शनमुत्सर्गो वा ॥ ३० ॥
तत उत्तरकालम् , यथाश्रद्धमिति । पुनर्द्रष्टुं यदि श्रद्धाऽस्ति पुनरा-गन्तूनां नृत्यतां दर्शनं, नो चेदुत्सर्गः प्रियालापैः संप्रेषणम् ॥ ३० ॥
यदा पुनः पुनर्दर्शनकौतुकं तदा दर्शनविशेषमाह—
व्यसनोत्सवेषु चैषां परस्परस्यैककार्यता ॥ ३१ ॥
व्यसनोत्सवेषु चैषामिति । आगन्तूनां कस्य चिद्व्याधौ शोके व्य-सने वा तथा विवाहादावुत्सवे व्यग्रस्य यत्कर्म तन्नियुक्तेन कुशीलवेन प्रेक्षणकाविघातार्थं संपाद्यम् , नियुक्तानां वा कस्य चिद्व्यसनोत्सवे, तदाऽऽगन्तुनेति परस्परैककार्यता स्यात् ॥ ३१ ॥
आगन्तूनां च कृतसमवायानां पूजनमभ्युपपत्तिश्चेति गणधर्मः॥३२॥
कृतसमवायानामिति । ये नागरकपण्डेऽभिषिक्ता घटां द्रष्टुमन्यस्मा-दागतास्तेषां पूजोपचारकर्माल्यानुलेपनादिभिः पूजनम् , पारिषदना-