कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 92, कुल 353 में से
संदर्भ में पढ़ें८२ सटीक कामसूत्रे [ २ अधिकरणे,
प्रकारेण वर्तयेत् तज्जन्यप्रीत्यर्थमेव, तथा हि-अतथाप्रवर्तनादनीप्सिता प्रतिरप्रीतिरेव स्यात् ॥ ७ ॥
इति प्रीतिविशेषाः सप्तमं प्रकरणम् ।
आदितः षष्ठ इति । प्रथमाध्यायात्प्रभृति षष्ठोऽयमित्यर्थः, एवमुत्तरत्रापि योज्यम् ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं प्रीतिविशेषाः प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः ।
एवं रतमवस्थाप्य तदङ्गभूतां चतुःषष्टिं निर्दिदिक्षुराह—
संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते चतुःषष्टिप्रकरणत्वात् ॥ १ ॥
संप्रयोगस्य चतुःषष्ट्यात्मकत्वात्तस्याङ्गं चतुःषष्टिरित्याचक्षते पूर्वाचार्यास्तस्मात्तां वक्ष्यामः ॥ १ ॥
तत्र चतुःषष्टिशब्दः शास्त्रे तदेकदेशे वा वर्तते, उभयथाऽपि व्यवहाराङ्कमिति दर्शयन्नाह—
शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः ॥ २ ॥
शास्त्रमेवेदमिति । इदमिति शास्त्रमाह, तच्च संप्रयोगस्याङ्गम्, तदुपायस्य तन्त्रावापाख्यस्य प्रकाशनात्, आचार्यवाद इति । शब्दविदो ह्याचार्या एवंविधमेव किञ्चिन्निमित्तमाश्रित्य चतुःषष्टिशब्दस्य प्रवृत्तिं वदन्ति तच्चेहाप्यस्तीति ॥ २ ॥
शास्त्रैकदेशे वा विद्यासमुद्देशे वर्तत इत्याह—
कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति ॥ २ ॥
अत्र हि गीतादयः कलाश्चतुःषष्टिरुक्ताः, ततस्तत्समूहो वा संप्रयोगाङ्गम् ॥ ३ ॥
ऋचां दशतयीनां च संज्ञितत्त्वादिहापि तदर्थसंबन्धात् पञ्चालसंबन्धाच्च बह्वृचैरेषा पूजाऽर्थे संज्ञा प्रवर्तितेत्येके ॥ ३ ॥
चतुःषष्टिः सांप्रयोगिके वा शास्त्रकदेशे वर्तते तत्र हि पाञ्चालिकी चतुःषष्टिः कथ्यते, कथं ताश्चतुःषष्टिरित्याह-दशतयीनां चेति । दशावयवा मण्डलानि यासामृचाम्, इत्यवयवे तयप्, दशतय्यस्ताश्चतुःषष्टिरि-