भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 108, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 108

Here is the line-by-line transcription of the text in Devanagari:

१०२ कर्पूरमञ्जरी मुक्कसंक ! हरिणंक ! किं तुवं सुंदरीपरिसरेण हिंडसे । ^१गोरगंडपरिपंडुरत्तणं पेच्छ दिण्णमिमिणा मुहेण दे ॥ ३४ ॥ (नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।) राजा—किं पुण एसो महाकोलाहलो ? कर्पूरमञ्जरी—(ससाध्वसम्।) पिअसहि ! एदं अवगमिअ आगच्छ । (कुरङ्गिका निष्क्रम्य प्रविशति ।) विदूषकः—देवीए पिअवअस्सस्स वंचणा किदेत्ति तक्केमि । कुरङ्गिका—पिअसहि ! एदं जेव पिअवअस्सस्स वंचणा गदं मुक्तशङ्क ! हरिणाङ्क ! किं त्वं सुन्दरीपरिसरेण हिण्डसे । गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते ॥ अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति वाक्यार्थः कर्म । तादृशसुन्दरीसविधे त्वं किं कुतो न परिभ्रमसि ? अत्यनुचितं करो- षीति भावः । अत एव साभिप्रायं संबोधनमाह—मुक्तशङ्केति । एतादृशं वस्तु यतः प्राप्तं तत्र भक्तिर्नास्तीति विमुच्यते ? शङ्कापि लोकज्जापि ते नास्तीति मह- दाश्चर्यमिति भावः । यद्वा,—यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तन्निकटाटनेन विशे- षान्तरप्राप्तिरपि सम्भाव्यते । तदपि त्वं नाचरासीति महानज्ञस्त्वमिति भावः । राजा— किं पुनरेष महाकोलाहलः ? कर्पूरमञ्जरी— प्रियसखि ! एतदवगम्यागच्छ । एतत् कलकलविषयवस्तु । विदूषकः— देव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि । कुरङ्गिका— प्रियसखि ! भट्‍टारस्य वञ्चनां कृत्वा त्वया सह सङ्गमं ज्ञात्वागच्छति देवी । तेन कुब्जवामनकिरातवर्षवरसौविदल्लानामेष कोलाहलः । १ 'मुञ्ज दिंव' इत्यपि पाठः । २ 'भट्टारअस्स वणणं कडुअ तुए सह संगमं आणिअ आगच्छदि' इति टीकापाठः ।