कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 135, कुल 172 में से
संदर्भ में पढ़ें८ बालभारतम् कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि । तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीतांशोरधिदेयतेव गलिता व्योम्नि द्रुतं गच्छतः ॥ २७ ॥ भीमः—(द्रौपदीसंभाषणमनुसंधाय । स्वगतम् ।) श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगत्तयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ २८ ॥ अर्जुनः—(स्वगतम् ।) हृदय ! कारय चक्षुषी पारणम् । पुरतो द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,— शारीदूतकलाकूतूहलि मनश्छेकोक्तिशिक्षारति- र्नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना- क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥ २९ ॥ नकुलः—(स्वगतम् ।) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् । स्मितपरिचयाद्वृत्तिर्याचामपाङ्गतराङ्गितं नयनरचितं पादन्यासो नितम्बभरालसः । अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ ३० ॥ सहदेवः—(स्वगतम् ।) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् । इदमग्रे हृदयलेप्यमानूप्यं लावण्यम् । तरङ्गय दृशौ मनाक्स्थगय दिक्ष्वरणान्युत्पलैः फरो यलय जायतां सरसिजाकरो जङ्गमः । विदस्य पुनरुक्ततां सुतनु लम्पटैकायटी- मुदञ्चय मुखं भवत्ययमकाण्डचन्द्रोदयः ॥ ३१ ॥ १. 'स्तोमारोहणः' इति पाठान्तरम्.