कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 141, कुल 172 में से
संदर्भ में पढ़ेंकिं किं किं चु चु चुम्बनैर्म म सुधा वक्त्राम्बुजस्याग्रतो दे दे देहि पि पि प्रिये सु सु सुरां पात्रे त्रि रे रेवति । मा मा मा वि विलम्बनं कु कु कुरु प्रेम्णा हली याचते यस्येत्थं मदघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः ॥ ५२ ॥ अपि च,— नीलाम्बरं नलिनदाम च यस्य भूषा यत्प्रीतिकारि मधुरं मधु रेवती च । लीलार्धदृष्टधनुरत्र हली सहेलं शारैः स एष खलु खेलति खेलगामी ॥ ५३ ॥ द्रौपदी—यः किलैरावणवारण इव सदा मदस्वच्छन्दः । वन्दी—किमाह कामपालः— रेवतीं त्रिभुवनैकसुन्दरीं न प्रकोपयति रोहिणीसुतः । तेन नैष विदधाति कौतुकी दृष्टिभागमपि कृष्णकार्मुके ॥ ५४ ॥ (पुनः ।) वन्दी— यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे निर्जित्योर्जितशार्ङ्गनिर्गतशरश्रेणीभिरुद्दामभिः । शच्या वाञ्छितमौलिबन्धरचनैः पुष्पैः सदा सुन्दरां- श्चक्रे नन्दनपारिजातकतरून्विभ्रम्भरासाक्षिणः ॥ ५५ ॥ वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां किमपरमसुराणां मन्दिता सोऽयमास्ते । कृतसुरपरितोषः षोडशस्त्रीसहस्र- प्रणिहितपरिरम्भास्यास्पदं पद्मनाभः ॥ ५६ ॥ द्रौपदी—यस्य किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकल- त्रम् । यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य । वन्दी—किमाह देवो वासुदेवः ।