कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 151, कुल 172 में से
संदर्भ में पढ़ें२४ बालभारतम् तत्रोत्सर्पिणि राजसूयसमये राज्ञः पृथाजन्मनो द्वीपैशैर्विनयान्वितैरुपचितं चित्रैर्महाप्राभृतैः । प्रत्यक्षीकृतवान्यदस्मि विभवं कोपाधिकारे स्थित- स्तेनाद्यापि निरौषधो मनसि मे दाहज्वरो वर्तते ॥ ८ ॥ अपि च, गान्धाराधिपते मातुल ! मायामये मयसभाधितले महाम्बु त्यक्त्वा ततो व्रजति मय्यनभिज्ञभावात् । यत्कृष्णया विहसितं सह फाल्गुनेन तन्मे मनः कुसुमलावमिदं लुनाति ॥ ९ ॥ ( नेपथ्ये । ) देवश्चन्द्रकुलप्रतापतिलकः षाड्गुण्यवाचस्पति- र्धीरो निर्मलकीर्तिनिर्जरगिरिर्भूर्खण्डविद्याधरः । कृत्स्नद्वीपजयैकलम्बितमहाश्वेतातपत्रोन्नतिः पाण्डोः पाण्डुयशस्करो विजयते पृथ्वीं पृथानन्दनः ॥ १० चण्डातकः—युधिष्ठिरबन्दी पठति किंनरकण्ठ एषः । ( पुनर्नेपथ्ये । ) नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः शश्वत्खङ्गभुजंगचन्दनतरौ क्रीडोपधाने श्रियः । आलाने जयकुञ्जरस्य सुदृशां कंदर्पदर्पे चिरं श्रीदुर्योधनदोष्णि विक्रमधने लीनं जगन्नन्दति ॥ ११ ॥ चण्डातकः—एष दुर्योधनमागधः कलकण्ठो नाम । विदुरः—संप्राप्तावेतौ युधिष्ठिरदुर्योधनौ सभाम् । एते च भीष्मद्रो- णकृपहार्दिक्यकर्णसोमदत्ताश्वत्थामादयो भीमसेनः कौरवेश्वरभ्रातृशतं च प्रविशति, तदावामपि प्रविशावः । ( इति निष्क्रान्तौ ।) विष्कम्भकः ।
१. उदाहृतोऽयं श्लोकः क्षेमेन्द्रेणौचित्यविचारचर्चायाम्.