कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 41, कुल 172 में से
संदर्भ में पढ़ें२८ कर्पूरमञ्जरी देवी—( समन्तादवलोक्य । ) गाअंतगोअवहुपअपैखिदासु दोलासु विभमवदीसु ¹णिविट्ठदिट्ठी । जं जादि खंजिदतुरंगरहो दिणेसो तेण घ होंति दिअहा अइदीहदीहा ॥ २१ ॥ ( प्रविश्यापटीक्षेपेण । ) विदूषकः—आसणं आसणं । देवी— गायद्गोपवधूपदप्रेङ्खितासु दोलासु विभ्रमवतीषु निषण्णदृष्टिः । यद्याति खञ्जिततुरङ्गरथो दिनेश- स्तेन भवन्ति दिवसा अतिदीर्घदीर्घाः ॥ पदेधरणं । प्रेङ्खितास्वान्दोलितासु । गोष्ठीभिर्दिनातिदीर्घा दिवसा आलस्यमा- वहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति व्यज्यते, तेन प्रकृतसंगतिः । अत्र हेत्वति- शयोक्तिपर्यायोक्तमुत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्तौ दण्डिमते—(का. २।२१४) ‘विवक्षा या विशेषस्य लोकसीमानिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥’ इति । ‘अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तमिदिष्यते ॥’ (का. २।२९५) इति । प्रविश्येति । अपटी जवनिका । विदूषकः— आसनमासनम् । दीयतामिति शेषः । १ 'निमण्ण' इति टीकानुगुणः पाठः ।