कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 73, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ६५ विच्छाअंतो णअररमणीमंडलस्साणणाई विच्छालँतो गअणकुहरं कंतिजोण्हाजलेण । पेच्छंतीणं हिअअणिहिदं णिद्दलंत्तो अ दप्पं दोलालीलासरलतरलो दीसए से मुहेंदू ॥ ३० ॥ अवि अ,— उत्तोहिं गोउरेहिं धुअवधवलवडाडंयरिल्लावलीहिं घंटाहिं विंदुरिल्हासुरतरणिविमाणाणुसारं लहंती । पाआरं लंघअंती कुणदि रववसा उण्णमंती णमंती एंती जंती अ दोला जणमणहरणी चुट्टँणुव्वुट्टणेहिं ॥ ३१॥ विच्छाययन्नगररमणीमण्डलस्याननानि प्रक्षालयन् गगनकुहरं कान्तिज्योत्स्नाजलेन । प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्पं दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः ॥ विच्छाययन् विगतच्छायानि कुर्वन्, म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तया जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रक्षालयन् । जलेन क्षालनमुचितमेवेति भावः । 'सरलतरल' इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकश्लेषानुवृत्त्यनुप्रामरूपाः शब्दार्थालंकारा विभाव्याः । स्पष्टमन्यत् । अपि च,— उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरवद्धावलीषु घण्टाभिर्विदारणसुरतरणिविमानानुसारं वहन्ती । प्राकारं लङ्घयन्ती करोति रववशादुन्नमन्ती नमन्ती आयान्ती यान्ती च दोला जनमनोहरं कर्णोत्पत्यणैः ॥ धवलध्वजपटाडम्बराणां बद्धा आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिर्दर्शितं विदारं वेगेन गच्छत्सुरतरणिविमानं देवाहनावमानं तदनु- रूपं तत्तुल्यं प्राकारं वहन्ती विभावा । कर्णोत्पत्यणैः रववशाल्लङ्घयन्ती । राहत्वम- १ 'पच्छावेन्तो' इति टीकानुगतः पाठः । २ 'धवलध्वजपडाडम्बरी' इति टीकानुगतः पाठः । ३ 'करणे कहुणुवट्ठणेहिं' इति टीकानुगतपाठः । क० ग० ०